________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः
अथ "भवप्रत्ययोऽवधिदेवनारकाणाम्" इत्यादिषु नारकशब्द आकर्णितः । 'के ते नारकाः' इति प्रश्ने नारकस्वरूपनिरूपणार्थं नारकाणामधिकरणभूताः सप्त भूमय उच्यन्तेरस्नशर्करावालुकापकधूमतमोमहातम प्रभा भूमयो घना
म्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः ॥ १॥ सप्तभूमयः सप्तनरकभूमयोऽधोऽधो भवन्ति, नीचर्नीचर्भवन्ति । कथम्भूताः सप्तभूमयः ? रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभाः । प्रभाशब्दः प्रत्येकं प्रयुज्यते । तेनायमर्थः-रत्नप्रभा च शर्कराप्रभा च वालुकाप्रभा च पङ्कप्रभा च धूमप्रभा च तमःप्रभा च महातमःप्रभा च । रत्नप्रभासहिता भूमी रत्नप्रभा, मन्दान्धकारा। शर्कराप्रभासहिता भूमिः शर्कराप्रभा, 'अतोषत्तेजस्का । वालुकाप्रभासहिता भूमिर्वालुकाप्रभा अन्धकारप्राया १० अतिमनाक्तेजस्का । पङ्कः कर्दमः, पङ्कप्रभासहिता भूमिः पङ्कप्रभा, पङ्केऽपि मलिना प्रभा वर्तते । धूमप्रभासहिता भूमिधूमप्रभा। धूमेऽपि पङ्कादपि मलिनतरा प्रभा वर्तते । तमःप्रभासहिता भूमिस्तमःप्रभा। तमसोऽपि स्वकीया प्रभा वर्तते। महातमःप्रभासहिता भूमिः महातमःप्रभा, महान्धकारसहिता भूमिः। तमस्तमःप्रभाऽपरनाम्नी । अत्र वालुकास्थाने वालिका इति च पाठो दृश्यते । तथा सति वालुकाया वालिकेत्यभिधा ज्ञातव्या । पुनरपि १५ कथम्भूता भूमयः ? घनाम्बुवाताकाशप्रतिष्ठाः । घनश्च अम्बु च वातश्च आकाशश्च घनाम्बुवाताकाशाः, धनाम्बुवाताकाशाः प्रतिष्ठा आधारो यासां भूमीनां ता घनाम्बुवाताकाशप्रतिष्ठाः । घनवातः धनोदधिवाताऽपरनामको वातः । अम्बुवातः घनवाताऽपरनामको वातः । वातस्तनुवाताऽपरनामको वातः । अस्यायमर्थः सर्वाः सप्तापि भूमयो धनवातप्रतिष्ठा वर्तन्ते । स च घनवातः अम्बुवातप्रतिष्ठोऽस्ति । स चाम्बुवातस्तनुवातप्रतिष्ठो वर्तते । स च तनुवात २० आकाशप्रतिष्ठो भवति । आकाशस्यालम्बनं किमपि नास्ति । सप्त भूमय इत्युक्ते अधिकोनसंख्यानिषेधः प्रतिपादितः। अधोऽधः इत्युक्ते तिर्यग् न वर्तन्ते, उपर्युपरि च न वर्तन्ते, रज्जुरज्जुप्रमाणाकाशान्तरे वर्तन्ते इत्यर्थः। यथेते त्रयो वाताः भूमीनां पर्यन्तेषु वर्तन्ते तथा सप्तानां भूमीनामधस्तलेषु च त्रयो वाताः प्रत्येक वर्तन्त इति च ज्ञातव्यम् । अत्र प्रस्तावागतत्रैलोक्यवेष्टनवातस्वरूपनिरूपणार्थ श्लोकत्रयोदशकमुच्यते । तथा हि
२५
१-कं यु- भा०, ब०, द०, ज० । २ महान्धकारा मा०, ब०, ६०, ज० । ३ अतीव तेजव० । अतीव तेज-१० । अर्तववेज- आ०, २०, ६०। ४ सप्तभू-मा०, ब०, द०, ज० ।
For Private And Personal Use Only