SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० तत्त्वार्थवृत्ती [२१५३ अथ देवमानवतिर्यग्नारका अनेकविधपुण्यपापकर्मोदयायत्ताश्चतुर्गतिषु शरीराणि धारयन्ति, ते सम्पूर्णमायुर्भुक्त्वा शरीरान्तराण्याश्रयन्ति आहोस्विदसम्पूर्णमप्यायुर्भुक्त्वा गत्यन्तरं यान्तीति प्रश्ने सूत्रं सूचयन्ति सूरयः औपपादिकचरमोत्तमदेहासंख्येयवर्षायुषोऽनपवायुषः ॥ ५३॥ ५ उपपादे भवा औपपादिका देवनारकाः। चरमोऽन्त्य उत्तम उत्कृष्टो देहः शरीरं येषां ते चरमोत्तमदेहाः तज्जन्मनिर्वाणयोग्यास्तीर्थङ्करपरमदेवा ज्ञातव्याः । गुरुदत्त पाण्डवादीनामुपसर्गेण मुक्तत्वदर्शनान्नास्त्यनपवायुर्नियम इति न्यायकुमुदयचन्द्रोदये ( चन्द्रे ) प्रभाचन्द्रेणोक्तमस्ति । तथा चोत्तमदेवत्वेऽपि सुभौमब्रह्मदत्तापवल्युर्दर्शनात् , कृष्णस्य च जरत्कुमारबाणेनापमृत्युदर्शनात् सकलार्धचक्रवर्तिनामप्यनपवायुनियमो नास्ति इति राज१० वार्तिकालङ्कारे प्रोक्तमस्ति । असंख्येयवर्षाणि उपमानेन कल्पोपमादिना गणितानि वर्षाणि आयुर्वेषां भोगभूमिजतिर्यङमानवकुभोगभूमिजानां ते असंख्येयवर्षायुषः । औपपादिकाश्च चरमोत्तमदेहाश्यासंख्येयवर्षायुषश्च औपपादिकचरमोत्तदेहासंख्येयवर्षायुषः । एते अनपवायुषः । न अपवयं विषशस्त्राग्निप्रभृतिसन्निधाने ह्रस्वमायुर्वेषां ते अनपवायुषः । यद्येतेषामपवयं हस्वमायुर्न भवति तर्हि अर्थादन्येषां विषशस्त्रादिभिरायुरुदीरणाम्रफलादिवद् १५ भवतीति तात्पर्य्यार्थः । अन्यथा दयाधर्मोपदेशचिकित्साशास्त्रं च व्यर्थं स्यात् । चरमोत्तमदेह इत्यस्मिन्स्थाने चरमदेह इति केचित्पठन्तीति ; तन्न युक्तम् ; तथा सति संजयन्तादिमृत्यूपसर्ग मुक्तिर्न संगच्छत इति भद्रम्। 'इति सूरिश्रीश्रुतसागरविरचितायां तात्पर्यसंज्ञायां तत्त्वार्थवृत्तौ द्वितीयः पादः समाप्तः । १ -कर्मायत्ताश्च- आ०, ब०, व०, द०, ज०। २ मुद्रिते न्यायकुमुदचन्द्र नेदमुपलभ्यते । ३ "अन्त्यचक्रधरवासुदेवादीनामायुषोऽपवर्तदर्शनादव्याप्तिः । उत्तमदेहाश्चक्रधरादयोऽनपवायुष इत्येतत् लक्षणमव्यापि । कुतः ? अन्तस्य चक्रधरस्य ब्रह्मदत्तस्य वासुदेवस्य च कृष्णस्य अन्येषाञ्च ताहशानां बाह्यनिमित्तवशादायुरपवर्तदर्शनात् ।” -राजवा० २।५३ । ४ इत्यनवद्यगद्यपद्यविद्याविनोदितप्रमोदपीयूषरसपानपावनमतिसमाजरत्नराजमतिसागरयतिराजराजितार्थनसमर्थेन तर्कव्याकरणछन्दोऽलङ्कारसाहित्यादिशास्त्रनिशितमतिना यतिश्रीमद्देवेन्द्रकीर्तिभट्टारकप्रशिष्येण च सकलविद्वज्जनविहितचरणसेवस्य श्रीविद्यानन्दिदेवस्य संछदि तमिथ्यामतदुर्गरेण श्रीश्रुतसागरसूरिणा विरचितायां श्लोकवार्तिकराजवाति कसर्वार्थसिद्धिन्यायकुमुदचन्द्रोदयप्रमेयकमलमार्तण्डप्रचण्डाष्टसहस्रीप्रमुखग्रन्थसन्दर्भनिर्भरावलोकनबुद्धिविराजितायां तत्त्वार्थटीकायां द्वितीयोऽध्यायः समाप्तः । मा०, ब०, ६०, ज०। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy