SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१५०-५२] द्वितीयोऽध्यायः वर्तते । प्रमत्तसंयतस्यवाहारकं शरीरं भवति, नान्यस्य । प्रमत्तसंयतस्य आहारकशरीरमेव भवति इति न मन्तव्यम् ; तथा सति औदारिकादिशरीरप्रतिषेध उत्पद्यते । अथ किन्नामाहारकशरीरमिति चेत् ? भरतरावतस्थितस्य कस्यचिन्मुनेः केवलज्ञानाभावे यदा सन्देह उत्पद्यतेतदा तत्त्वनिश्चयार्थ पञ्चमहाविदेहान्यतमविदेहकेवलिसमीपमौदारिकशरीरेण गच्छतो मुनेरसंयमो भवति इति विचिन्त्य आहारकशरीरमेकहस्तप्रमाणं रोमाग्राष्टमभागप्रमाणशिरोदशम- ५ द्वारच्छिद्रादाहारकं पुत्तलकं निर्गच्छति । तन्निर्गमनादेव स मुनिः प्रमत्तसंयतो भवति । तच्छरीरं तीर्थकरशरीरं स्पृष्ट्वा पश्चादायाति । तस्मिन्नागते सति मुनेस्तत्त्वसन्देहो विनश्यति । 'ईदृग्विधानि शरीराणि धारयतां संसारिणां प्राणिनां गति प्रति त्रीणि लिङ्गानि भवन्ति, आहोस्विदस्ति कश्चिद् विशेषः' इति प्रश्ने सति लिङ्गनिर्णयार्थ सूत्रत्रयं भण्यते भगवद्भिःनारकसम्मूछिनो नपुंसकानि ॥ ५० ॥ १० वक्ष्यमाणलक्षणोपलक्षितेषु नरकेषु भवा नारकाः, सम्मूर्छनं सम्मूर्छः, सम्मुझे विद्यते येषां ते सम्मूछिनः, नारकाश्च सम्मूछिनश्च नारकसम्मूछिनः। एते नपुंसकानि भवन्ति । चारित्रमोहविशेषकषायविशेषस्य नपुंसकवेदस्य अशुभनामकर्मप्रकृतेरुदयाच्च न स्त्रियो न पुमांसः नपुंसकानीत्युच्यन्ते । सप्तनरकोद्भवा नारकाः एकद्वित्रिचतुरिन्द्रियाः सर्वेऽपि सम्मूछिनः, पञ्चेन्द्रियाश्च नपुंसकानि भवन्ति इति निश्चयः । तेषु खलु स्त्रीपुंस- १५ सम्बन्धिनी मनोहारिशब्दगन्धवर्णरसस्पर्शनिमित्ता ह्यल्पापि सुखमात्रा न विद्यते।। ___ 'यद्येवं निर्धार्यते तीर्थापत्तेरन्येषां संसारिणां त्रिलिङ्गी घटत इति सन्देहे यन्त्र नपुंसकलिङ्गस्याऽत्यन्ताभावस्तत्स्वरूपनिरूपणार्थं वचनमिदमुच्यते न देवाः ॥५१॥ भवनवासिव्यन्तरज्योतिष्ककल्पोपपन्न(नाः)कल्पातीताश्च नपुंसकानि न भवन्ति । २० किन्त्वच्युतपर्यन्तं स्त्रीत्वं पुंस्त्वञ्च शुभगतिनामकर्मोदयजनितं स्त्रीपुंस्त्वनिरतिशयसुखं निर्विशन्ति । मानुषसुखादप्यतिशयस्त्री पुंस्त्वसुखं देवा भुञ्जते ।। 'अथेतरेषां कियन्ति लिङ्गानि भवन्ति' इति प्रश्ने योगोऽयमुच्यते शेषास्त्रिवेदाः ॥५२॥ शेषा गर्भजानिवेदा भवन्ति । त्रयो वेदा लिङ्गानि येषां ते त्रिवेदाः । तल्लिङ्ग २५ द्विप्रकारं भवति । नामकर्मोदयात् स्मरमन्दिरमेहनादिकं ,व्यलिङ्गं भवति, नोकषायमोहकर्मोदया भावलिङ्ग स्यात् । कथम् ? स्त्रीवेदोदयात् स्त्री भवति, पुंवेदोदयात् पुमान् भवति, नपुंसकवेदोदयात् नपुंसको भवतीति तात्पर्यम् । १ मुनेः स-भा०, ब०, द०, ज० । २ सप्तमनर- आ०, ब०, द०, ज०। ३ -कानि इ-मा०, ब०, २०, ज० । ४-रिरवगन्ध- आ०, ब०, द०, ज०, ता० १५ -वं धा- भा०, २०, ६०, ज०। ६-शयं नि- भा०, ब०, द०, ज० । ७ द्रव्यलिङ्गानि भवन्ति मा०, ब०, २०, ज०। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy