SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०८ तत्वार्थवृत्तौ [ २४८-४९ भवति । तर्हि तीर्थंङ्करजन्मादौ नन्दीश्वर चैत्यालयादि गमने बह्रीं बेलां विना तत्सम्बन्धि कर्म कथं कर्तुं लभ्यत इत्याह-- सत्यम् ; घटिका द्वयादुपर्युपरि अन्यदन्यच्छरीरं वैक्रियिका उत्पाद्यन्ति, छिन्नपद्मिनी कन्दोभयपार्श्व लग्नतन्तुन्यायेनोत्तरशरीरेष्वात्मप्रदेशानन्तर्मुहूर्तेऽन्तर्मुहूर्ते पूरयन्ति, तेनोत्तरशरीरं यथेष्टकालं तिष्ठति । तर्ह्यत्तरशरीरे क्रियमाणे देवानां ५ किमपि कष्टं भविष्यति ? न भविष्यति, प्रत्युत सुखं भवति । उक्तञ्च — "स्वर्भोगवर्गप्रसिताक्षवर्गोऽप्युदीच्यदेहाक्षसुखैः प्रसक्तः । अर्हत्प्रभौ व्यक्तविचित्रभावो भजत्विमां प्राणतजिष्णुरिभ्याम् ||" [ प्रति.सा. २।१२१] किमेतद्वै क्रियिकमेव लब्ध्यपेक्षं भवति आहोस्विदन्यदपि शरीरं लब्धप्रत्ययं भवतीति प्रश्ने सूत्रमिदमाहु:---- १० आ तेजसमपि ॥ ४८ ॥ तेजसमपि शरीरं लब्धप्रत्ययं भवति, लब्धिनिमित्तं स्यात् । तत्तैजसं शरीरं द्विप्रकारं भवति - निःसरणात्मकम्, अनिःसरणात्मकञ्च । तत्र निःसरणात्मकस्य तैजसशरीरस्य स्वरूपं निरूप्यते कश्चित् यतिरुप्रचारित्रो वर्तते । स तु केनचित् विराधितः सन यदाऽतिक्रुद्धो भवति तदा वामस्कन्धाज्जीवप्रदेशसहितं तेजसं शरीरं बहिर्निर्गच्छति । तद् १५ द्वादशयोजन दीर्घं नवयोजनविस्तीर्णं काहलाकारं जाज्वल्यमानाग्निपुञ्जसदृशं दाह्यं वस्तु परिवेष्ट्यावतिष्ठते । यदा तत्र चिरं तिष्ठति तदा दाह्यं वस्तु भस्मसात्करोति । व्याघुट्य यतिशरीरे प्रविशत् सत् तं यतिमपि विनाशयति । एतत्तैजसं शरीरं निःसरणात्मकमुच्यते । अनि:सरणात्मकं त्वौदारिकवैक्रियिकाहार कशरीराभ्यन्तरवत्तिं तेषां त्रयाणामपि दीप्तिहेतुकं भवति । अथेदानीमाहारकशरीरस्वरूपनिर्णयार्थं तत्स्वामिनिरूपणार्थं सूत्रमिदं प्रतिपादयन्ति -- २० शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव ॥ ४९ ॥ आहरति गृह्णाति स्वीकरोति तत्त्वज्ञानमित्याहारकम् । आहारकं शरीरं शुभेन ऋद्धिशेषेणोत्पद्यते इति कारणात् मनःप्रीतिकरं शुभमित्युच्यते । शुभकर्मण आहारककाययोगस्य हेतुत्वाद्वा शुभमित्युच्यते । विशुद्धस्य पुण्यकर्मणः सन्दिग्धार्थनिर्णयस्य अमिश्रस्य निरवद्यस्य कार्यस्य वा करणात् संक्लेशरहितं विशुद्धमिति कथ्यते तन्तूनां कापसव्यपदेशवत् । २५ उभयतो हि प्राणिबाधालक्षणव्याघाताभावादव्याघातीति भण्यते । आहारकशरीरेण अन्यस्य व्याघातो न क्रियते, अन्येन शरीरेण च आहारकशरीरस्य च व्याघातो न विधीयत इत्यर्थः । 'चकार उक्तसमुच्चयार्थः । तेनायमर्थः - कदाचित् संयमपरिपालनार्थम्, कदाचित्सूक्ष्मपदार्थनिर्णयार्थम्, कदाचिल्लब्धिविशेषसद्भावज्ञापनार्थ माहारकशरीरं भवति । ईदृग्विधमाहारकशरीरं कस्य भवति ? प्रमत्तसंयतस्यैव षष्ठगुणस्थानवर्तिनो मुनेः । एवशब्दोऽवधारणार्थो Acharya Shri Kailassagarsuri Gyanmandir ज० । १ - विस्तारं ता०, ब० । २ अतः का आ०, ब०, ५०, ज० । ३ कार्यस्य कारणात् ब०, द०, For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy