________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४४-४७]] द्वितीयोऽध्यायः
१०७ ते तैजसकामणे द्वे शरीरे आदिर्येषां तानि तदादीनि। भाज्यानि विकल्पनीयानि पृथक् कर्त्तव्यानि । युगपत् समकालम् । एकस्य जीवस्य । कियत् पर्यन्तम् ? आ चतुर्व्यः चत्वारि शरीराणि यावत् । कस्यचिज्जीवस्य विग्रहगत्यवसरे तैजसकार्मणे द्वे शरीरे भवतः । कस्यचिज्जीवस्य तैजसकार्मणौदारिकाणि त्रीणि भवन्ति। कस्यचिज्जीवस्य तैजसकार्मणवैक्रियिकाणि त्रीणि शरीराणि भवन्ति । कस्यचिज्जीवस्य तैजसकामणौदारिकाहारकाणि ५ चत्वारि शरीराणि भवन्ति । एकस्य युगपत् पञ्च न भवन्तीत्यर्थः । यस्य आहारकं शरीरं भवति तस्य वैक्रियिकं न भवति, यस्य वैक्रियिकं भवति तस्याहारकं न भवतीति विशेषो ज्ञेयः । अथ पुनरपि शरीरविशेषपरिज्ञानार्थं वचनमिदमुच्यते
निरुपभोगमन्स्यम् ॥ ४४॥ इन्द्रियद्वारेण शब्दादिविषयाणामुपलब्धिरुपभोगः। उपभोगान्निष्क्रान्तं निरुपभोगम् । १० अन्ते भवमन्त्यम् , कार्मणशरीरमित्यर्थः। विग्रहगतावपि कार्मणं शरीरं सत्तारूपेण आत्मनि तिष्ठति, न तु शब्दादिविषयं गृह्णाति, द्रव्येन्द्रियनिवृत्त्यभावात् । ननु तैजसशरीरमपि निरुपभोगं वर्तते, किमुच्यते काणं शरीरं निरुपभोगम् ? इत्याह-सत्यम् । तैजसं शरीरं योगनिमित्तमपि न भवति कथमुपभोगनिमित्तं भविष्यतीत्यलमेतद्विचारेण ।।
अथोक्तलक्षणेषु जन्मसु अमूनि पञ्च शरीराणि प्रादुर्भवन्ति, तर्हि किमविशेषेण प्रादु- १५ भवन्ति आहोस्विदस्ति कश्चिद्विशेषः १ इति प्रश्ने वचनमिदमूचुरुमास्वामिनः
गर्भसम्मूर्छनजमाद्यम् ॥ ४५ ॥ गर्भे जातं गर्भजम् । सम्मूर्छनाज्जातं सम्मूर्छनजम् । गर्भजश्च सम्मूर्छनजञ्च गर्भसम्मूर्छनजम् , समाहारे द्वन्द्वः । यद् गर्भजं शरीरं यच्च सम्मूर्छनजं शरीरं तत्सर्वमाद्यमौदारिक ज्ञातव्यम् । अथवा, गर्भश्च सम्मूर्छनञ्च गर्भसम्मूर्छने, ताभ्यां जातं गर्भसम्मूर्छनजम्। २० तपिपादिकं कीदृशं भवतीत्याशङ्कायामाह
.. औपपादिकं वैक्रियिकम् ॥ ४६ ॥ उपपादे भवमोपपादिकं देवनारकशरीरम् , तत्सर्वं शरीरं वैक्रियिकं ज्ञातव्यम् ।
यद्यौपपादिकं वैक्रियिक तय नौपपादिकं शरीरं किं सर्वथा वैक्रियिकं न भवतीति प्रश्ने सूत्रमिदं प्रतिपादयन्ति सूरयः
२५ लब्धिप्रत्ययश्च ।। ४७ ॥ तपोविशेषात्सञ्जाता ऋद्धिप्राप्तिर्लब्धिरुच्यते। लब्धिः प्रत्ययः कारणं यस्य शरीरस्य तल्लब्धिप्रत्ययं वैक्रियिकं शरीरं भवति। न केवलमौपपादिकं शरीरं वैक्रियिक भवति, किन्तु लब्धिप्रत्ययं लब्धिकारणोत्पन्नं शरीरं वैक्रियिकं कस्यचित् षष्ठगुणस्थानवर्त्तिनो मुनेर्भवतीति वेदितव्यम् । उत्तरवैक्रियिकशरीरस्य कालः स्थितिर्जघन्येनोत्कर्षेण चान्तर्मुहूतो ३०
१ -मूचुः- ता०, व०। २ गर्भाज्जातं द०, ज०। ३ समाहारद्वन्द्वसमासः ज० ।
For Private And Personal Use Only