SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०६ तत्वार्थवृत्तौ [ २/४०-४३ गुणकारः ? अभव्यानामनन्तगुणं तैजसम् सिद्धानामनन्तभागं तैजसम् । तैजसाच अनन्त गुणं कार्मणमेवं ज्ञातव्यम् । 'यदि तैजसकार्मणयोः शरीरयोरनन्ताः प्रदेशाः सन्ति तर्हि तेजसकार्मणशरीरसहितो जीवो यदा विग्रहगतिं करोति तदाऽपरेण रूपादिमता पदार्थान्तरेण जीवस्य गतिप्रतिबन्धो ५ भविष्यति, गच्छतः कुम्भस्य कुड्यादिनाऽवरोधवत् ' इत्यारे कायां योगममुमाचक्षते --- अप्रतीघाते ॥ ४० ॥ Acharya Shri Kailassagarsuri Gyanmandir कार्मणे द्वे शरीरे पटलादिना अप्रतिघाते प्रतिस्खलनरहिते भवतः मूर्तिमता पदार्थेन व्याघातरहिते भवतः इत्यर्थः । ननु वैक्रियिकाहारकयोरपि शरीरयोः प्रतिघातो न वर्तते किमुच्यते तैजसकार्मणयोरेव प्रतीघातरहितत्वम् ? इत्याह- सत्यम् ; यथा तैजसकार्मणयोः १० शरीरयोरालोकान्तादपि सर्वत्र प्रतीघातो न वर्तते, तथा वैक्रियिकाहारकयोरपि प्रतीघाताभावः सर्वत्र नास्तीति । अथ तैजसकार्मणयोः शरीरयोरेतावानेव विशेषो वर्तते, आहोस्वित् कश्चिदन्योऽपि विशेषो वर्तते ? इत्यतः प्राहुराचार्याः २५ अनादिसम्बन्धे च ॥ ४१ ॥ १५ दानादिकाले जीवेन सह सम्बन्धः संयोगो ययोस्तैजसकार्मणयोस्ते द्वे अनादिसम्बन्वे । चकारात् पूर्वपूर्वते जसकार्मणयोः शरीरयोर्विनाशादुत्तरोत्तरयोस्तै जसकार्मणयोः शरीरयोरुत्पादाच्च वृक्षाद् बीजवत् बीजद वृक्षवच्च कार्यकारणसद्भावः । सन्तत्या अनादिसम्बन्धे विशेषापेक्षया सादिसम्बन्धे चेत्यर्थः । यथा हि - औदारिकवै क्रियिकाहारकाणि त्रीणि शरीराणि जीवस्य कादाचित्कानि भवन्ति, कदाचित् भवानि कादाचित्कानि, तथा तैजस२० कार्मणे द्वे शरीरे जीवस्य कादाचित्के न भवतः । किं तर्हि ? ते द्वे नित्यं भवत इत्यर्थः । कियत्कालपर्यन्तं नित्यं भवतः ? यावत् संसारो न क्षीयते तावत्पर्यन्तं भवत इत्यर्थः । यथा जीवस्य कार्मणशरीरं नित्यं वर्तते तथा तैजसमपि शरीरं नित्यं वर्तत इति तात्पर्यम् । तर्हि ते तैजसकार्मणे द्वे शरीरे किं कस्यचित् भवतः, किं कस्यचिन्न भवतः, आहोस्विदविशेषेण सर्वस्यापि प्राणिवर्गस्य भवत इत्यारे कायां सूत्रमिदमाहु:सर्वस्य ॥ ४२ ॥ सर्वस्य निरवशेषस्य संसारिणो जीवस्य तेजसकार्मणे द्वे अपि शरीरे भवत इत्यर्थः । अथ संसारिजीवस्य सर्वशरीरसम्प्राप्तिसद्भावे विशेषोऽयमुच्यते भगवद्भिः-तदादोन भाज्यानि युगपदेकस्याचतुर्भ्यः ॥ ४३ ॥ १ भव्यानामन- आ०, ब०, ६०, ज० । २ पर्जन्यपटला- आ०, ब०, द० ज० । ३ अनादी जीवेन ता० । अनादौ अनादिकालेन जी- ब० । ४ बीजवृक्ष- भा० द०, ब०, ज० ५ तर्हि तेंज - आ०, ब० ० ज० द० । ६ - कस्मिन्नाच - भा० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy