SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रा३७-३९] - द्वितीयोऽध्यायः १०५ सन्देह उत्पद्यते तदा स चिन्तयति-'तीर्थङ्करपरमदेवदर्शनं विनाऽयं सन्देहो न विनश्यति । स भगवान् अत्र क्षेत्रे नास्ति । किं क्रियतेऽस्माभिः' इति चिन्तां कुर्वाणे प्रमत्तसंयते मुनौ सति तस्य तालुप्रदेशे रोमानस्य अष्टमो भागश्छिद्रं वर्त्तते, · तस्मात् हस्तप्रमाणं घनघटितस्फटिकबिम्बाकारं पुत्तलकं निर्गच्छति। तत्पुत्तलकं यत्र कुत्रापि क्षेत्रे तीर्थङ्करपरमदेवो गृहस्थो दीक्षितः छद्मस्थः केवली वा यत्र वर्तते तत्र गच्छति । तच्छरोरं स्पृष्ट्या पश्चा- ५ दायाति । तेनैव तालुछिद्रेण तस्मिन्मुनौ प्रविशति । तदा तस्य मुनेः सन्देहो विनश्यति, सुखी च भवति । इत्याहारकशरीरस्वरूपम् । तेजसनामकर्मोदयनिमित्तं वपुरते सम्पादक यत्तत् तैजसम् । तेजसि वा भवं तैजसम् , सर्वप्राणिषु वर्त्तते एव। कार्मणनामकर्मोदयनिमित्तं कार्मणम् , कर्मणां कार्य वा कार्मणम् । कर्मणां समूहो वा कार्मणम्। सर्वेषां शरीराणां कर्मैव निमित्तं वर्तते यद्यपि तथापि प्रसिद्धिवशात् विशिष्टविषये वृत्तितिव्या । १० कर्मणोऽपि निमित्तं फर्म इत्यर्थः। अथौदारिकं शरीरं चक्षुरादिभिरिन्द्रियैरुपलभ्यते उदारत्वात्तथेतरेषां शरीराणां कस्मात्तैर्लब्धिर्न भवतीति स्फुटं पृष्टा इव स्वामिनः प्राहुः परं परं सूक्ष्मम् ॥ ३७॥ औदारिकात् स्थूलरूपात् परं वैक्रियिक सूक्ष्मं भवति। वैक्रियिकात् परमाहारक सूक्ष्म १५ भवति। आहारकात् परं तैजसं सूक्ष्मं भवति । तेजसात् परं कार्मणं शरीरं सूक्ष्मं भवति । ___ 'यदि परं परं सूक्ष्म तर्हि परं परं प्रदेशैरपि हीनं भविष्यति' इत्याशङ्कायां सूत्रमिदमाहुरुमास्वामिनः प्रदेशतोऽसंख्येयगुर्ण प्राक् तेजसात् ॥३८॥ - प्रदेशेभ्यः प्रदेशतः परमाणुभ्यः, परं परमसङ्ख्यातगुणं भवति । कथं प्राक् , कस्मात् २० प्राक् ? तेजसात् तैजसशरीरात् । औदारिकाद् असङ्ख्येयगुणपरमाणुकं वैक्रियिक भवति । वैक्रियिकादाहारकर्मसङ्ख्येयगुणपरमाणुकं भवति । कोऽसौ गुणकारः ? पल्योपमासङ्ख्येयभागेन श्रेण्यसंख्येयभागेन वा गुणकारो ज्ञातव्यः। उत्तरोत्तरस्य बहुप्रदेशत्वेऽपि सूक्ष्मत्वं लोहपिण्डवत् ज्ञातव्यम् । पूर्वपूर्वस्य अल्पप्रदेशत्वेऽपि स्थूलत्वं तूर्लनिचयवद् बोद्धव्यम् । ___तर्हि तैजसकार्मणयोः शरीरयोः प्रदेशाः किं समा वर्तन्ते, आहोस्वित् कश्चिद् विशेषोऽस्ति ? इति प्रश्ने योगमेतं प्रतिपादयन्ति अनन्तगुणे परे ॥ ३९ ॥ परे तैजसकार्मणे द्वे शरीरे अनन्तगुणे भवतः। आहारकशरीरात्तैजसं शरीरं प्रदेशरनन्तगुणं भवति । तैजसाच्छरीरात्कार्मणं शरीरं प्रदेशैरनन्तगुणं जागति। कोऽसौ ३० १ -मसंख्यातगु- आ०, ब०, व०, द०, ज० । २ तूलवत् २०, ५०, ज० । १४ For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy