________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४ तत्त्वार्थवृत्तौ
[ २।३४-३६ तत्र जरायुजा मनुष्यादयः । अण्डजाः सर्पशकुन्तादयः । पोताः प्रकटयोनयश्च मार्जारादयः।
यद्येतेषां गर्भलक्षणं जन्मोच्यते तद्युपिपादः केषां सञ्जायत इति' प्रश्नतः सूत्रं प्राहुराचार्याः
देवनारकाणामुपपादः ॥ ३४॥ . देवानां भवनवासिनां व्यन्तरराणां ज्योतिष्काणां कल्पोपपन्नकल्पनातीतानाञ्च चतुर्णिकायानां जन्म उपपादो भवति । पल्यकोपरि हंसतूलद्वयमध्ये सञ्जायते इत्यर्थः। तथा नारकाणाञ्च जन्म उपपादो भवति । कण्डरकच्छत्रकच्छिंद्रसदृशस्थानेषु तेषामधोमुखानामुपरि पादानामुत्पत्तिर्भवति, ततस्तेऽधः पतन्ति। तत्स्वरूपमग्रे वक्ष्यते । अथापरेषां प्राणिनां किं जन्म भवतीति प्रश्ने सूत्रमिदमाहुः सूरयः
. शेषाणां सम्मूच्र्छनम् ॥ ३५ ॥ गर्भजेभ्य औपपादिकेभ्यश्च ये अन्ये त एकेन्द्रियविकलेन्द्रिया जरायुजादिवर्जितास्तिर्यङ्मनुष्याश्च शेषा इत्युच्यन्ते । तेषां सम्मूर्च्छनमेव जन्म भवति । एतानि त्रीण्यपि सूत्राणि उभयतो निर्णयकराणि ज्ञातव्यानि । कोऽसावुभयतो निर्णयः ? जरायुजाण्डजपोतानामेव
गर्भो भवति, गर्भ एव च जरायुजाण्डजपोतानां भवतीति प्रथमयोगनिर्णयः । देवनारकाणा१५ मेवोपपादो भवति, उपपाद एव च देवनारकॉणामेव भवतीति द्वितीययोगनिर्णयः। शेषाणामेव सम्मूर्छनं भवति, सम्मूर्च्छनमेव शेषाणां भवतीति तृतीयसूत्रंनिश्चयः।
अथ तेषां त्रिविधजन्मनां संसारिणां सगृहीतबहुभेदनवयोनिविकल्पानां शुभनामकर्मोदयनिष्पादितानि कर्मबन्धफलमुक्त्यधिकरणानि शरीराणि कानि भवन्तीति प्रश्ने योगोऽय
मुच्यते भगवद्भिः२० औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि ॥ ३६॥
औदारिकनामकर्मोदयनिमित्तमौदारिकम् । चक्षुरादिग्रहणोचितं स्थूलं शरीरमौदारिकशरीरमित्युच्यते। उदारं स्थूलमिति पर्यायः । उदरे भवं वा औदारिकम् । उदारं स्थूलं प्रयोजनमस्येति वा औदारिकम् । विविधं करणं विक्रिया। विक्रिया प्रयोजनं यस्य तद्
वैक्रियिकम्। वैक्रियिकनामकर्मोदयनिमित्तम् अष्टगुणैश्वर्ययोगादेकाऽनेकस्थूलसूक्ष्मशरीर२५ करणसमर्थमित्यर्थः । मूलशरीरं जिनजन्मादिकालेऽपि देवानां न कापि गच्छति । उत्तर
शरीरं त्वनेकमेकं वा जिनोत्सवादी सर्वत्र गच्छति । आहारकनामकर्मोदयनिमित्तमाहारकम् । तस्येदं स्वरूपम्- सूक्ष्मपदार्थपरिज्ञानार्थमसंयमपरिहारार्थ वा प्रमत्तसंयतेन आहियते उत्पाद्यते निष्पाद्यते निर्वय॑ते यत् तदाहारकम् । आहारकशरीरं किल प्रमत्तसंयतेनैव निष्पाद्यते । प्रमत्तसंयतस्य यदा सूक्ष्मपदार्थे सन्देह उत्पद्यते संयमविचारे वा
१ इत्यतः प्रा- ता०। २ -छिद्रसहितेषु स्था- भा०, ब०, द०, ज०। -छित्रसव०। ३ वक्ष्यति आ०, ब०, द०, ज०, व० । ४ -काणां भ- मा०, ब०, द०, ज० ।५-निर्णयः भा०, २०, २०, ज०। ६ अणिमामहिमादयोऽष्टौ गुणाः ।
For Private And Personal Use Only