________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३
२२३३]
द्वितीयोऽध्यायः द्योनयः। अनेन सूत्रेणोक्ता एते नव योनयो ज्ञातव्याः। ननु योनिजन्मनोः को भेदः ? आधाराधेयभेदाद् भेदः। कोऽसावाधारः, को वाधेयः ? योनय आधाराः, जन्मविशेषा आधेयाः। यस्मात्कारणात् सचित्तादिप्रदेशे स्थित्वा जीवः सम्मूर्च्छनादिना जन्मना निजशरीराहारेन्द्रियोच्छ्वासभाषामनोयोग्यान् पुद्गलान गृह्णाति ।
अथेदानी सचित्तादियोनीनां स्वामिन उच्यन्ते-सचित्तयोनयः साधारणशरीरा वन- ५ स्पतिकायिकाः। कस्मात् ? अन्योन्याश्रयत्वात् । अचित्तयोनयो देवा नारकाश्च । देवनारकाणामुपपादः प्रदेशपुद्गलप्रचयोऽचित्तो वर्तते यस्मात् । सचित्ताचित्तयोनयो गर्भजा भवन्ति, मातुरुदरे शुक्रशोणितमचित्तं वर्तते, आत्मा सचित्तस्तेन मिश्रत्वात् । अथवा शुक्रशोणितं यत्र मातुरुदरे पतितं वर्त्तते तदुदरं सचित्तं वर्तते, तेन गर्भजाः सचित्ताचित्तलक्षणमिश्रयोनयः। वनस्पतेरितरे सम्मूर्छनजाः पृथिव्यादयोऽचित्तयोनयो मिश्रयोनयश्च । देवनारकाः १० शीतोष्णयोनयः यत उपपादस्थानानि कानिचिदुष्णानि वर्तन्ते, कानिचिच्छीतानि वर्तन्ते । तेजस्कायिका उष्णयोनयः । अपरे पृथिव्यादयः केचिच्छीतयोनयः केचिदुष्णयोनयः केचि
छीतोष्णमिश्रयोनयः। संवृतयोनयो देवा नारकाश्च पृथिव्यादयाः पञ्च च । विवृतयोनयः द्वित्रिचतुरिन्द्रियाः। संवृतविवृतमिश्रयोनयो गर्भजा भवन्ति । एता मूलभूता नव योनयो भवन्ति । तदन्तर्भेदाश्चतुरशीतिलक्षा भवन्ति । तदुक्तम्
"णिच्चिदरधादुसत्त य तरुदह वियलिंदिएसु छच्चेव । सुरणिरयतिरिय चदुरो चउदस मणुये सदसहस्सा ॥"
[बारस० अणु० गा० ३५ ] अस्यायमर्थः-नित्यनिगोदा इतरनिगोदाश्च पृथिव्येप्तेजोवायवश्च प्रत्येकं सप्तलक्षयोनयः । वनस्पतिकायिका दशलक्षयोनयः। द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाश्च प्रत्येकं द्विलक्ष- २० योनयः । सुरा नारकास्तियश्चश्च पृथक् चतुर्लक्षयोनयः । मनुष्याश्च चतुर्दशलक्षयोनयः ।
अथेदानी पूर्वोक्तयोनीनां प्राणिनां केषां कीदृशं जन्म भवति ? इत्याशङ्कायां प्रथमतस्तावद् गर्भलक्षणजन्मभेदं दर्शयन्त्याचार्याः ।
जरायुजाण्डजपोतानां गर्भः ॥ ३३ ॥ __ यत्प्राणिनामानायवज्जालवदावरणं प्रविततं पिशितरुधिरं तद्वस्तु वस्त्राकारं जरायुरि- २५ त्युच्यते । उकललमित्यपरपर्यायः । यच्छुकलोहित-रिवरणं परिमण्डलमुपात्तकाठिन्यं नखछल्लीसदृशं नखत्वचा सदृक्षं तदण्डमित्युच्यते । यद् योनिनिर्गतमात्र एव परिस्पन्दादिसामोपेतः परिपूर्णप्रतीक आवरणरहितः स पोत इत्युच्यते । जरायो जाता जरायुजाः। अण्डे जायन्ते स्म अण्डजाः। जरायुजाश्च अण्डजाश्च पोताश्च जरायुजाण्डजपोताः, तेषां जरायुजाण्डजपोतानाम् । एतेषां त्रयाणां गर्भो भवति । एते त्रयो गर्भयोनयो भवन्ति इत्यर्थः। ३०
१ -यः केचिच्छीतोष्ण- ता०, व० । २ नित्येतरघातुषु दश त्रसदश विकलेन्द्रियेषु षट्चैव । सुरनरकतिर्यक्षु चत्वारः चतुर्दश मनुष्ये शतसहस्राणि ।। ३ कलिल- भा०, ब०, २०, ज० ।
For Private And Personal Use Only