________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२ तत्त्वार्थवृत्तौ
[२२३१-३२ भवति । को नाम आहारः ? त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्या ये पुद्गलास्तेषां ग्रहणं स्वीकार आहार उच्यते । एवंविधस्य आहारस्य अभावो यस्य स भवत्यनाहारकः । कर्मस्वीकारो हि जीवस्य निरन्तरं वर्तते । तेन कार्मणशरीरसद्भावे विद्यमाने सति उपपाद
क्षेत्रं प्रति अविग्रहायां गतौ ऋज्यां गतावाहारकः, इतरेषु त्रिषु समयेषु वक्रगतित्वादनाहारक ५ एव । तथा हि पाणिमुक्तायामेकवक्रायां गतौ प्रथमसमयेऽनाहारकः, द्वितीयसमये त्याहारक एव ।
लाङ्गलिकायां द्विवक्रायां गतौ प्रथमसमये द्वितीयसमये चानाहारकः तृतीयसमये ऋज्वां गतावाहारक एव। गोमूत्रिकायां त्रिवायां गतौ प्रथमसमये द्वितीयसमये तृतीयसमये च अनाहारकः, चतुर्थसमये ऋज्वां गतावाहारक एव । इषुगतौ स्वैकसमयिक्यामाहारक एव ।
तथा च ऋद्धिप्राप्तस्य यतेराहारकं शरीरमाहारकमिति ।। १० अथेदानी शरीरान्तरप्रादुर्भावलक्षणं जन्म उच्यते । तस्य जन्मनः प्रकारान् प्रतिपादयन्ति भगवन्तः
सम्मूच्र्छनगर्भोपपादा जन्म ॥ ३१ ॥ त्रैलोक्यमध्ये ऊर्ध्वमधस्तात्तिर्यक् च शरीरस्य समन्तान्मूर्छनमवयवप्रकल्पनं सम्मूछनमुच्यते । मातुरुदरे रेतःशोणितयोर्गरणं मिश्रणं जीवसंक्रमणं गर्भ उच्यते । अथवा मात्रा १५ गृहीतस्य आहारस्य यत्र ग्रहणं भवति स गर्भ उच्यते । उपेत्य पद्यते सम्पूर्णाङ्ग उत्पद्यते
यस्मिन् स उपपादः, देवनारकोत्पत्तिस्थानविशेष इत्यर्थः। सम्मूर्छनञ्च गर्भश्च उपपादश्च सम्मूर्छनगर्भोपपादाः। एते त्रयः संसारिजीवानां जन्म कथ्यते । पुण्यपापपरिणामकारणकर्मप्रकारविपाकोत्पन्ना एते त्रयः पदार्था जन्मप्रकारा भवन्ति ।
___ अथेदानी संसारिणां जन्माधारभूतो योनिभेदो वक्तव्य इति प्रश्ने सूत्रमिदं २० ब्रुवन्त्याचार्याः
सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तद्योनयः ॥ ३२ ॥
जीवस्य चेतनाप्रकारः परिणामश्चित्तमुच्यते। चित्तेन सह वर्तते सचित्तः । शीतः स्पर्शविशेषः । तेन युक्तं यद्व्यं तदपि शीतमुच्यते। सम्यक्प्रकारेण वृतः प्रदेशः संवृतो
४दुरपलक्ष्य इत्यर्थः । सचित्तश्च शीतश्च संवृतश्च सचित्तशीतसंवृताः। अथवा बहुवचनान्त२५ विग्रहे सचित्ताश्च शीताश्च संवृताश्च सचित्तशीतसंवृताः। इतरैरचित्तोष्णविवृतैः सह
वर्तन्ते ये योनयस्ते सेतराः । उभयात्मका योनयो मिश्रा उच्यन्ते । के ते मिश्राः ? सचित्ताऽचित्तशीतोष्णसंवृतविवृता इति । चकार उक्तसमुच्चयार्थः । तेनायमर्थो लभ्यते-सचित्ताश्च मिश्रा भवन्ति अचित्ताश्च मिश्रा भवन्ति, शीताश्च मिश्रा भवन्ति, उष्णाश्च मिश्रा भवन्ति ।
संवृताश्च मिश्रा भवन्ति, विवृताश्च मिश्रा भवन्ति, मिश्रा अप्यन्यैः सह मिश्रा भवन्ति । ३० एकमेकं जन्म प्रति एकशः तद्योनयस्तेषां सम्मूच्र्छनगर्भोपपादलक्षणानां जन्मनां योनयस्त
१ -ति तर्हि विग्रहगतौ को आ०, ब०, द०, ज० । २ गंतावा- आ०, ता० । ३ उपेत्यते ता० । ४ दुरपेक्ष्य भा०, ५०, ज० ।
For Private And Personal Use Only