SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रा२८-३०] द्वितीयोऽध्यायः विग्रहवती च संसारिणः प्राक्चतुर्म्यः ॥ २८ ॥ विग्रहवती वक्रा गतिः। चकारादवका च । संसारिणः संसारिणो जीवस्य द्वे गती भवतः। अविग्रहा या अवक्रा गतिः, सा एकसमयपर्यन्तं भवति, ऐकसमयिकी भवति "एकसमयाऽविग्रहा" [त० सू० २।२० ] इति वचनात्। सा अवका गतिर्यदा संसारिणो भवति तदाप्यकसमयिक्येव यदा तु सिद्धयतां ५ भवति तदाप्यैकसमयिक्येव । सा अवक्रा गतिरिषुगतिनाम्नी भवति। यथा इषोर्बाणस्य गतिर्गमनं वेध्यपर्यन्तं ऋज्वी भवति तथा सिद्धानां संसारिणाञ्च अविग्रहा गतिरैकसमयिकी समानैव । विग्रहवतो वक्रा गतिः संसारिणामेव भवति । तस्यास्त्रयः प्रकारा भवन्ति-पाणिमुक्ता-लाङ्गलिका-गोमूत्रिकाभेदात् । पाणिमुक्ता यथा-पाणिना तिर्यक्रैक्षिप्तस्य द्रव्यस्य गतिरेकवक्रा, तथा संसारिणः पाणिमुक्तागतिरेकवक्रा, द्वैसमयिकी भवति । लाङ्गलिका गतिविका १० यथा लागलं हलं द्विवकं भवति तथा संसारिणां द्विवका लाङ्गलिका गतिर्भवति। सा त्रैसमयिकी। गोमूत्रिका बहुवक्रा त्रिवका गतिर्भवति । सा गोमूत्रिका गतिः संसारिणां चातुःसमयिकी भवति । अत एव आह-प्राक्चतुर्व्यः। सा विग्रहवती गतिश्चतुर्थ्यः समयेभ्य प्राक् पूर्व भवति । चतुर्थसमयस्य मध्ये अन्ते वा वका गतिर्न भवति, गोमूत्रिकापेक्षया मध्ये अन्ते वा वक्रागतिर्न भवतीति ज्ञातव्यम् । सा चतुर्थसमये प्राञ्जलं सरलं गत्वोत्पत्तिक्षेत्रे प्रविशति । १५ समयस्य ग्रहणमत्र सूत्रे नास्ति, कस्मात् समयग्रहणं क्रियते ? सत्यम् ; 'एकसमयाविग्रहा' इत्युत्तरसूत्रे समयग्रहणं वर्त्तते, तबलादत्रापि समयग्रहणं क्रियते इति । यथा षष्टिका व्रीहिविशेषाः षष्ट था दिनैर्निष्पद्यन्ते तथा सर्वोत्कृष्टा वक्रा गतिः निष्कुटक्षेत्रे चातुःसमयिक्येव गतिर्भवति न अधिकसमया, स्वभावात् त्रिवका गतिश्चतुःसमया एव । अयेदानी ऋजुगतेः कालविशेषं दर्शयन्त्याचार्याः एकसमयाऽविग्रहा ॥ २९ ॥ एकः समयो यस्याः सा एकसमया। न विद्यते विग्रहो वक्रता यस्याः सा अविग्रहा। अविग्रहा अवकगतिरेकसमया भवति । गतिं कुर्वतां जीवानां पुद्गलानाञ्च व्याघातरहितत्वेन अविग्रहा गतिर्लोकपर्यन्तमप्यैकसमयिकी भवति । अथेदानीमनादिकाले कर्मबन्धस्य सन्तत्यां सत्यां मिथ्यादर्शनाविरतिप्रमादकषाययोग- २५ लक्षणोपलक्षितप्रत्ययवशात् कर्माणि स्वीकुर्वाणोऽयमात्मा सर्वदा आहारको भवति, तर्हि विग्रहगतावप्याहारको भवतीत्याशङ्कायां तन्निश्चयार्थं सूत्रमिदमाहेराचार्याः एकं द्वौ त्रीन्वाऽनाहारकः ॥३०॥ एक समयं द्वौ वा समयौ त्रीन्या समयान् प्राप्य अयं जीवो विग्रहगतावनाहारको १ तदा एक- भा०, ब०, द०, ज०।२ सिद्धानां आ०, ब०, ९०, ज०। ३ प्रक्षितद्रव्यस्यग- द० प्रक्षिप्तद्रव्यग- श्रा० । प्रक्षिप्तद्रव्यग- ज० । प्रक्षिप्तस्य द्रव्यग- ता० । ४ -गतिका-३०, ज०। ५ -हुः ता०, २० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy