________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
• तत्त्वार्थवृत्तौ
[२०२६-२७ अनुश्रेणि गतिः ॥ २६ ॥ लोकस्य मध्यप्रदेशादारभ्य ऊर्ध्वमधस्तात्तिर्यक्च व्योमप्रदेशानामनुक्रमेण संस्थितानामावलिः श्रेणिर्भण्यते । अनु श्रेणेरनतिक्रमेण अनुश्रेणि । अत्र अव्ययीभावः समासः ।
उक्तञ्च "पूर्व वाच्यं भवेद्यस्य सोऽव्ययीभाव इष्यते ।" [कात० २।५।१४ ] जीवानां ५ पुद्गलानाश्च गतिर्गमनं भवति । कथं गतिर्भवति ? अनुश्रेणि श्रेण्यनतिक्रमेण इत्यर्थः।
ननु पुद्गलानामत्राधिका'रोपि नास्ति जीवाधिकारे पुद्गलस्य गतिः कथमन लभ्यते ? सत्यम् । गत्यधिकारेऽपि पुनर्गतिग्रहणं पुद्गलस्यापि गतिग्रहणार्थम् । कोऽसौ गत्यधिकारः ? "विग्रहगतौ कर्मयोगः" [त० सू० २।२५ ] इत्यत्र गतेर्ग्रहणं वर्तते । तथा च आगामिनि
सूत्रे जीवग्रहणादत्र पुद्गलग्रहणं लभ्यते । किं तदागामिसूत्रम् ? "अविग्रहा जीवस्य" १० [ त० सू० २।२७ ] इति । तर्हि चन्द्रसूर्यादीनां ज्योतिष्काणां मेरुप्रदक्षिणावसरे श्रेणि
रहिता गतिर्दृश्यते। तथा देवविद्याधरचारणादीनां च विश्रेणिगतिईश्यते-श्रेणिं विनापि गतिर्विलोक्यते, किमर्थमुच्यते श्रीमद्भिर्गतिरनुश्रेणि भवतीति ? सत्यम् ; कालनियमेन देशनियमेन चात्र गतिर्वेदितव्या। कोऽसौ कालनियमः, को वा देशनियम इति चेत् ?
उच्यते-प्राणिनां मरणकाले भवान्तरग्रहणार्थं या गतिर्भवति सिद्धानाश्चोर्ध्वगमनकाले या १५ गतिर्भवति सा गतिरनुश्रेण्येव भवति । देशनियमस्तु-ऊर्ध्वलोकाद्या अधोगतिर्भवति,
अधोलोकाद्या ऊर्ध्वगतिर्भवति तिर्यग्लोकाद्या अधोगतिर्भवति । तिर्यग्लोकाद्या ऊर्ध्वगतिश्च भवति सा अनुश्रेण्येव भवति । पुद्गलानाञ्च या लोकान्तप्रापिका गतिर्भवति सापि निश्चयादनुश्रेण्येव भवति । इतरा तु गतिर्यथायोग्यं भजनीया। __ अथ पुनरपि गतिप्रकारपरिज्ञानार्थं श्रीमदुमास्वामिनः सूत्रमिदमाचक्षते
अविग्रहा जीवस्य ॥ २७॥ विग्रहो व्याघातः, वक्रता इत्यर्थः । न विद्यते विग्रहः कुटिलता यस्यां गतौ साऽविग्रहा, सरलगतिरित्यर्थः । ईविधा सरला गतिः कस्य भवति ? जीवस्य । जीवशब्दोऽत्र सामान्यार्थः । यद्यपि जीवशब्देन संसारिणो मुक्ताश्च जीवा लभ्यन्ते
तथाप्यत्र जीवशब्देन मुक्तात्मा जीवोऽत्र ज्ञायते । कुत इति चेत् ? आगामिसूत्रे २५ संसारिजीवग्रहणात् । किं तदागामिसूत्रम् ? "विग्रहवती च संसारिणः प्राकचतुर्व्यः" " [त० सू० २।२८ ] इति । ननु 'अनुश्रेणि गतिः' इत्यनेनैव सूत्रेण श्रेण्यश्रेण्यन्तरसङक्रमण
भावाभावसद्भावः कथितः, किमनेन 'अविग्रहा जीवस्य' इति सूत्रेण प्रयोजनम् ? इत्याह कश्चित् , सत्यम् , पूर्वसूत्रे विश्रेणिगतिरपि कचिद् भवतीति ज्ञापनार्थमिदं सूत्रं कृतम् ।
अथ यदि मुक्तात्मनोऽविग्रहगतिर्भवतीति प्रतिज्ञा क्रियते भवद्भिस्तहिँ सशरी३० रस्य जीवस्य किं मुक्तात्मवदप्रतिबन्धिनी गतिर्भवति, आहोस्वित् सप्रतिबन्धापि भवतीत्या
शङ्कायां सूत्रं प्रतिपादयन्त्युमास्वामिनः
१ -रो ना- आ०, २०, द०, ज० ।
For Private And Personal Use Only