________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२।२४-२५] द्वितीयोऽध्यायः
। ९९ इति द्विवचनम्। कृम्यादीनां स्पर्शनं भवत्येव रसनमधिकं भवति । पिपीलिकादीनां स्पर्शनरसने भवत एव घाणमधिकं भवति । भ्रमरादीनां स्पर्शनरसनघ्राणानि भवन्त्येव चक्षुरधिकं भवति । मनुष्यादीनां स्पर्शनरसनघ्राणचक्ष षि भवन्त्येव श्रोत्रमधिकं भवति ।
तत्र स्थावरभेदात् द्विविधेषु इन्द्रियभेदात् पञ्चविधेषु च संसारिजीवेषु ये पञ्चेन्द्रिया अनुक्तभेदाः तद्भेदसूचनार्थ सूत्रमिदमाहुराचार्याः
संज्ञिनः समनस्काः ॥ २४ ॥ सह मनसा वर्तन्ते ये ते समनस्काः। सज्ञानं सज्ञा। संज्ञा विद्यते येषां ते संज्ञिनः। ये समनस्कास्ते संज्ञिन उच्यन्ते । ते तु पञ्चेन्द्रिया एव । अर्थादेकेन्द्रियादयश्चतुरिन्द्रियपर्यन्ताः संमूच्छन्नोत्पन्नाः पञ्चेन्द्रियाश्च असंज्ञिनो भवन्ति । संज्ञिनां शिक्षालापग्रहणादिलक्षणा क्रिया भवति । 'असंज्ञिनां शिक्षालापग्रहणादिकं न भवति । असंज्ञिनामपि अनादिकालविषया- १० नुभवनाभ्यासदाादाहारभयमथुनपरिग्रह लक्षणोपलक्षिताश्चतस्रः संज्ञाः अभिलाषप्रवृत्त्यादिकञ्च संगच्छत एव, किन्तु शिक्षालाप ग्रहणादिकं न घटते।।
'अथ संसारिणां सर्वा गतिः शरीरसम्बन्धाद् भवति । शरीरे च मुक्ते सति मृतौ प्राप्तायामुत्तरशरीरार्थगमनं जीवस्य न सङ्गच्छते शरीराभावात् सिद्धवत्' इत्यारेकायां सूत्रमिदमाहुराचार्याः
विग्रहगतौ कमयोगः ॥ २५ ॥ विग्रहः शरीरम् , तदथं गतिविग्रहगतिः, तस्यां विग्रहगतौ। कर्मभिर्योगः कर्मयोगः । यदा आत्मा एकं शरीरं परित्यज्य उत्तरशरीरं प्रति गच्छति तदा कार्मणशरीरेण सह योगः सङ्गतिर्वत्तते । तेनायमर्थः-कार्मणशरीराधारेण जीवो गत्यन्तरं गच्छति । अथवा विरुद्धो ग्रहो . ग्रहणं विग्रहः, कर्मशरीरग्रहणेऽपि नोकर्मलक्षणशरीरपरित्याग इत्यर्थः। विग्रहेण गतिः २० विग्रहगतिः । एकस्य परिहारेण द्वितीयस्य ग्रहणेन गतिविग्रहगतिः, तस्यां विप्रहगतौ । तर्हि कर्मयोगः क इति चेत् ? उच्यते-निखिलशरीराङ्कुरबीजभूतं कार्मणं वपुः कर्म इति कथ्यते । तर्हि योगः कः ? वाङ्मनसकायवर्गणाकारणभूतं जीवप्रदेशपरिस्पन्दनं योगः कथ्यते । कर्मणा विहितो योगः कर्मयोगः स कर्मयोगो विग्रहगंतावुत्तरशरीरप्रहणे भवति । तेन कर्मयोगेन कर्मकृतात्मप्रदेशस्पन्दनेन कृत्वा कर्मादानं देशान्तरसंक्रमणश्च भवतीति स्पष्टार्थः। २५
अत्राह कश्चित्-जीवपुद्गलानां गतिं कुर्वतां देशान्तरसङ्क्रमणं किमाकाशप्रदेशकमवृत्त्या भवति, आहोस्विदविशेषेण अक्रमेणापि भवति इत्याशङ्कायां सूत्रमिदमाहुराचार्याः
१ अन्येषामपि सं- आ०, ब०, ज०, द० । २ -रनिद्राभ- आ०, २०, ज०, द० । ३ -हणल- आ०, ब०, ज०, द०। ४ सर्वगतिः- आ०, ब०, द०, ज.। ५ -धाम- ता० । ६ गतौ भ- ता० । ७ अनुक्रमे- आ०,ब०, द, ज० ।
For Private And Personal Use Only