________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्ती
[ २।२०-२३ अथेदानी पश्चानामिन्द्रियाणामनुक्रमेण विषयप्रदर्शनार्थं सूत्रमिदं ब्रुवन्त्याचार्याः
स्पर्शरसगन्धवर्णशब्दास्तदर्थाः ॥ २०॥ स्पृश्यत इति स्पर्शः, स्पर्शयुक्तोऽर्थः। रस्यते रसः, रसयुक्तोऽर्थः। गन्ध्यते गन्धः, गन्धयुक्तोऽर्थः। वर्ण्यते वर्णः, वर्णयुक्तोऽर्थः । शब्द्यते इति शब्दः, शब्दपरिणतपुद्गलः । ५ अथवा स्पर्शनं स्पर्शः, रसनं रसः, गन्धनं गन्धः, वर्णनं वर्णः, शब्दनं शब्दः इति
भावमात्रेऽपि । स्पर्शश्च रसश्च गन्धश्च वर्णश्च शब्दश्च स्पर्शरसगन्धवर्णशब्दाः। एते पञ्च तदर्थाः तेषां स्पर्शनादीनामिन्द्रियाणामस्तदर्था इन्द्रियविषया इत्यर्थः । अथ ईषदिन्द्रियग्राह्यं विषयमुपदिशन्ति
श्रुतमनिन्द्रियस्य ॥ २१ ॥ अस्पष्टावबोधनं श्रुतमुच्यते। तत् श्रुतमस्पष्टज्ञानम्। अनिन्द्रियस्य ईषदिन्द्रियस्य नोइन्द्रियाऽपरनाम्नश्चित्तस्य अर्थो विषयो भवति । यस्येन्द्रियस्य योऽर्थो ग्राह्यो भवति स विषय उच्यते। समनस्कस्य आत्मनो मनस्तत्र प्रवर्तते । अथवा श्रुतज्ञानविषयोऽर्थः श्रुतमुच्यते । तत् श्रुतमनिन्द्रियस्य चेतसो विषयो भवति । अनिन्द्रियस्य स विषयः कस्माद्
भवति ? श्रुतज्ञानावरणक्षयोपशमात् मनोऽवलम्बनज्ञानप्रवर्तनाच्च । अथवा श्रुतज्ञानं १५ श्रुतमुच्यते । तत् श्रुतमनिन्द्रियस्य अर्थः प्रयोजनं भवति । तेन कारणेनेदं प्रयोजनं मनसः स्वतन्त्रतया साध्यमित्यर्थः।। ___ अथेदानी स्पर्शनादीनामिन्द्रियाणां स्वामिन उच्यन्ते
वनस्पत्यन्तानामेकम् ॥ २२ ॥ वनस्पतिरन्ते येषां पृथिव्यप्तेजोवायूनां ते वनस्पत्यन्ताः, तेषां वनस्पत्यन्तानां पृथिव्यप्ते२० जोवायुवनस्पतीनां पञ्चानां स्थावराणामेकं स्पर्शनेन्द्रियं भवति। कस्मात् ? वीर्यान्तरायस्पर्श
नेन्द्रियावरणक्षयोपशमात् शेषेन्द्रियसर्वघातिस्पर्द्धकोदयात् शरीरनामकर्मलाभावष्टम्भादेकेन्द्रियजातिनामकर्मोदयवशाच्च ।
अथेदानी रसनादीनामिन्द्रियाणां स्वामिन उच्यन्ते
कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ।। २३ ॥ २५
आदिशब्दः प्रत्येकं प्रयुज्यते। तेनायमर्थः-कृमिरादिर्येषां शङ्खशुक्तिनखादीनां ते कृम्यादयः । पिपीलिका मुंगी आदिउँषां यूकालिक्षावृश्चिकगोभ्यादीनां ते पिपीलिकादयः । भ्रमर आदिर्येषां दंशमशककीटपतङ्गादीनां ते भ्रमरादयः । मनुष्य आदिर्येषां गोमहिषमृगसिंहव्याघ्रमत्स्यसर्पश्येनोंदीनां ते मनुष्यादयः । कृम्यादयश्च पिपीलिका
दयश्च भ्रमरादयश्च मनुष्यादयश्च कृमिपिपीलिकाभ्रमरमनुष्यादयः । तेषामेकैकवृद्धानि, ३० एकेन एकेन वृद्धानि अधिकानि एकैकवृद्धानि । “वीप्सायां पदस्य" [शा० प्रा० २।३।८]
१ अस्पृष्टाव- भा०, ब०, द०।२ -नामला- ता० । ३ मुनी आ- ता० । ४ -इयेनकादी-द० -श्येनकाकादी- आ०, ज० ।
For Private And Personal Use Only