________________
Shri Mahavir Jain Aradhana Kendra
२।१७-१९ ]
द्वितीयोऽध्यायः
तत्र द्रव्येन्द्रियस्वरूपनिरूपणार्थं सूत्रमिदं भणन्त्याचार्याः
निर्वृत्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥
'निर्वर्त्यते निष्पाद्यते कर्मणा या सा निवृत्तिः । बाह्याभ्यन्तरभेदात् सापि द्विविधा | तत्र बाह्या निर्वृत्तिरुच्यते -चक्षुरादिषु मसूरिकादिसंस्थानरूप आत्मप्रदेशेषु इन्द्रियव्यपदेशश्चाक्षुषः प्रतिनियतसंस्थाननामकर्मोदयापादितावस्थाविशेषः पुदलप्रच्यो यः सा बाह्या ५ निवृत्तिरुच्यते । मसूरिकादिसंस्थानात् परतः उत्सेधाङ्गुला संख्येयभागप्रमितानां शुद्धानामावरणक्षयोपशमविशिष्टानां सूक्ष्मपुद्गलप्रदेश संश्लिष्टानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानेनाऽवस्थितानामात्मप्रदेशानां वृत्तिरभ्यन्तरनिवृत्तिः कथ्यते । तथा उपक्रियते निवृत्ते रुपकारः क्रियते, येन तदुपकरणम् । तदपि द्विविधम्- बाह्याभ्यन्तरभेदात् । तत्र बाह्यमुपकरणं शुकुकृष्णगोलकादीन्द्रियोपकारकं पक्ष्मपटलकर्णपालिकादिरूपं बाह्यमुपकरणम् । शुकृष्णादि - १० रूपपरिणतपुद्गलमण्डलमभ्यन्तरमुपकरणम् । एवं बाह्याभ्यन्तरा च निवृत्तिः, बाह्यमभ्यन्तरं चोपकरणं द्रव्येन्द्रियमुच्यते ।
sarai भावेन्द्रस्वरूपं निरूपयन्ति
www.kobatirth.org
लब्ध्युपयोगी भावेन्द्रियम् ॥
द०, ब० ।
Acharya Shri Kailassagarsuri Gyanmandir
१३
१८ ॥
लम्भनं लब्धः, लब्धिश्च उपयोगश्च लब्ध्युपयोगौ, एतौ द्वौ भावेन्द्रियं भवतः । १५ इन्द्रशब्देन आत्मा उच्यते तस्य लिङ्गमिन्द्रियमुच्यते । satara रणक्षयोपशमे सत्यात्मनोऽर्थग्रहणे शक्तिः लब्धिरुच्यते । आत्मनोऽर्थग्रहण उद्यमोऽर्थग्रहणे प्रवर्त्तनमर्थग्रहणे व्यापरणमुपयोग उच्यते । ननु इन्द्रियफलमुपयोगः, तस्य इन्द्रियफलभूतस्य उपयोगस्य इन्द्रियत्वं कथम् ? इत्याह- सत्यम् । कार्यस्य कारणोपचारात् । यथा घटपटाद्याकारपरिणतं विज्ञानमपि घटपटादिरुच्यते तथा इन्द्रियार्थग्राहक उपयोगोऽपि इन्द्रियमुच्यते ।
अथ इन्द्रियाणां संज्ञाप्रतिपादनार्थं सूत्रमिदमाहुः -
९७
स्पर्शनरसनप्राणचक्षुः श्रोत्राणि ॥ १६ ॥
आत्मना कत्तृ भूतेन स्पृश्यतेऽर्थः कर्मतापन्नोऽनेन करणभूतेन स्पर्शनेन तत्स्पर्शनम् । अथवा स्पृशतीति स्पर्शनम् । “ कृत्ययुटोऽन्यत्रापि " [ का० सू० ४/५ / ९२ ] इति कर्त्तरि युट् । एवं रस्यत आस्वाद्यतेऽर्थोऽनेनेति रसनम् । रसयत्यर्थमिति वा रसनम् । त्रायते गन्ध २५ उपादीयते आत्मना अनेनेति प्राणम्। जिघ्रति गन्धमिति वा घ्राणम् । चष्टे पश्यत्यर्थान आत्मा अनेनेति चक्षुः । चष्टे इति वा चतुः । श्रूयते आत्मना शब्दो गृह्यते अनेनेति श्रोत्रम् । शृणोतीति वा श्रोत्रम् । स्पर्शनन रसनञ्च घ्राणञ्च चक्षुश्च श्रोत्रच स्पर्शनर सनप्राणचक्षुः श्रोत्राणि । एतानि इन्द्रियाणि पञ्ज स्पर्शनादिसंज्ञानि भवन्ति ।
आ०,
१ निर्वृत्यते ता० । २ नां प्रवृ- आ० ज०, ५०, ब० । ३ लभनं ता०, ब०,
For Private And Personal Use Only
२०