________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्तौ
[ २०१५-१६ उभेदिमाः-उद्भेदनमुद्भेदः, भूमिकाष्ठपाषाणादिकं भित्त्वा ऊर्ध्वं निस्सरणमुद्भेदः, उद्भेदो विद्यते येषान्ते उभेदिमाः, अत्रास्त्यर्थे इमप्रत्ययः। यथा रत्नानि भङ्क्त्वा केनचिद् दुर्दुरो निष्कासितः। उपपादिमाः-उपेत्य गत्वा पद्यते जायते यस्मिन्नित्युपपादः,
देवनारकाणां जन्मस्थानम् , तत्र भवा उपपादिमाः । प्रमादिनां दुष्परिणामवशात् तेषामनप५ वायुषामपि हिंसोत्पद्यते, न तु ते म्रियन्ते । तथा चोक्तम्
"स्वयमेवात्मनाऽऽत्मानं हिनस्त्यात्मा कषायवान् ।
पूर्व प्राण्यन्तराणान्तु पश्चात्स्याद्वा न वा वधैः ।।" [ अन्यथा सालिसिक्थो मत्स्यः कथं सप्तमं नरकं गतः १ "प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ।" [ त० सू० ७।१३ ] इति च वक्ष्यति । एते त्रसाश्चतुर्विधा भवन्ति ।
एतेषां कति प्राणा भवन्ति ? द्वीन्द्रियस्य द्वे इन्द्रिये, आयुः, उच्छ्वासनिश्वासः कायबलं वाग्बलमेते षट्प्राणाः भवन्ति । त्रीन्द्रियस्य षट् पूर्वोत्ताः घाणेन्द्रियाधिकाः सप्तप्राणा भवन्ति । चतुरिन्द्रियस्य सप्त पूर्वोक्ताश्च क्षुरिन्द्रियाधिकाः अष्टप्राणा भवन्ति । पञ्चेन्द्रियस्य तिरश्चोऽसंज्ञिनोऽष्टौ पूर्वोक्ताः श्रोत्रेन्द्रियाधिका नवप्राणा भवन्ति । पञ्चेन्द्रियसंज्ञितिर्यङमनुष्यदेवनारकाणां
नव पूर्वोक्ता मनोबलाधिका दशप्राणा भवन्ति । १५ अथ "द्वीन्द्रियादयवसाः" इति सूत्र इन्द्रियसंख्या न कथिता, तानि कति भवन्तीति प्रश्ने सूत्रमिदमाहुराचार्याः
पञ्चेन्द्रियाणि ॥ १५ ॥ कर्मसहितस्य जीवस्य स्वयमर्थान् गृहीतुमशक्तस्य अर्थग्रहणव्यापारे सहकारीणि इन्द्रियाणि भवन्ति । तानि तु इन्द्रियाणि पञ्चैव भवन्ति नाधिकानि, न च न्यूनानीति । परिभाषा२० सूत्रमिदम् । पायूपस्थवचःपाणिपादास्यानि पश्च कर्मेन्द्रियाण्यप्यंत्रोच्यन्ताम् ? इत्याह
सत्यम् । उपयोगप्रकरणे उपयोगीधनानां स्पर्शनादीनामेव पञ्चानां बुद्धीन्द्रियाणामेवात्र ग्रहणम् , न क्रियासाधनानां पायवादीनां ग्रहणमत्र वर्तते, कर्मेन्द्रियाणां पञ्चेति नियमाभावात् । अङ्गोपाङ्गनामकर्मनिष्पादितानां सर्वेषामपि क्रियासाधनत्वं वर्तत एव, तेन कर्मेन्द्रियाणि पञ्चैव न भवन्ति किन्तु बहून्यपि वर्तन्ते, तेनानवस्थानं पञ्चसङ्ख्यायाः। स्पर्शनादीनां पञ्चानामिन्द्रियाणामन्तर्भेदप्रकटनार्थ सूत्रमिदमाचक्षते विचक्षणाः
द्विविधानि ॥ १६ ॥ द्वौ विधौ प्रकारौ येषामिन्द्रियाणां तानि द्विविधानि द्विप्रकाराणीत्यर्थः। कौ तौ द्वौ प्रकारौ द्रव्येन्द्रियं भावेन्द्रियम्चेति।
१-यः उपया- ता० । २ रत्नं भ- व. । ३ दर्दुरको नि-व०।४ प्राणान्त- भा०, ब०, ज०, ता०, २०१५ उद्धृतोऽयं स० सि० ७.१३ । ६ सांख्यः प्राह । "वाक्याणिपादपायूपस्थानि कमेंन्द्रियाण्याहुः ।" -सांख्यका० २६ । ७ -त्रोच्यताम् प० ज०1८-साधकाना-आ०, २०, ब०, ज.।
For Private And Personal Use Only