________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२।१४ ] .
द्वितीयोऽध्यायः
९५ द्वे इन्द्रिये स्पर्शनरसनलक्षणे यस्य स द्वीन्द्रियः । द्वीन्द्रिय आदिर्येषां ते द्वीन्द्रियादयः । त्रस्यन्तीति त्रसाः। द्वीन्द्रियादयः पन्चेन्द्रियपर्यन्तास्त्रसाः कथ्यन्ते । स्पर्शनरसनयुक्ता द्वीन्द्रियाः-कुक्षिक्रमयः । शङ्खा वादनहेतवः । क्षुल्लकाः क्षुल्लकशङ्खाः । वराटकाः कपईकाः । अक्षा महाकपईकाः । अरिष्टवालकाः शरीरसमुद्भवतन्त्वाकारवालकाः। गण्डुवालकाः किञ्चुलकाः। महालवा अलसका इति यावत्। शम्बूकाः सामान्यजलशुक्तयः। लघुशङ्खा इति प्रभाचन्द्रः। ५ शुक्तयो मुक्ताफलहेतवः, अन्याश्च शुक्तयः । पुलविका रक्तपा जलौकस इति यावत् । आदिशब्दात् व्रणकमयः गुंवडकमयो नखादयो ज्ञातव्याः। त्रीन्द्रियाः स्पर्शनरसनघ्राणसहिताःकुत्थवः उद्देहिकाः। वृश्चिका गोभिकाः । खजूरकाः कर्णशलाकाः, शतपद्यपरनाम्नी(म्न्यः)। इन्द्रगोपकाः रक्तकीटाः, इन्द्रवधूटिकाऽपरनाम्ना ( मानः)। यूका लिक्षाः । मत्कुणाः पिपीलिकाः' मुंग्यपरनामिकाः। चतुरिन्द्रियाः स्पर्शनरसनघ्राणचक्षुःसहिताः-दंशा वनमक्षिका- १० ऽपरनामानः । मशका मशकेतराश्च मक्षिकाः प्रसिद्धाः । पतङ्गाश्च प्रसिद्धाः । कीटा गोर्वरकीटाः रुधिरकीटादयश्च । भ्रमराः षट्पदाः । मधुकर्यो मधुमक्षिकाः। गोमक्षिकाः बगायिकाः विश्वम्भराः। लूताः कोलिका इति यावत् ।
'पञ्चेन्द्रियाः स्पर्शनरसनघ्राणचक्षुःश्रोत्रसहिताः-अण्डायिकाः सर्पगृहकोकिलाः ब्राह्मण्यादयः । पोतायिकाः२–मार्जारादिगर्भविशेषः पोतः, तत्र कर्मवशादुत्पत्त्यर्थमाय आग- १५ मनं पोतायः, पोतायो विद्यते येषां ते पोतायिकाः, अस्त्यर्थ इको वाच्यः । श्वमार्जारसिंहव्याचित्रकादयोऽनावरणजन्मानः । जरायिकाः-जालवत्प्राणिपरिवरणं विततमांसरुधिरं जरायुः कथ्यते, तत्र कर्मवशादुत्पत्त्यर्थमाय आगमनं जरायः, . जरायुरेव जरः, तत्र आयः जरायः, जरायो विद्यते येषान्ते जरायिकाः, पृषोदरादित्वात् युलोपः। गोमहिषीमनुष्यादयः सावरणजन्मानः। रसायिकाः रसो घृतादिस्तत्र चर्मादियोगे आय आगमनं विद्यते २० येषां ते रसायिकाः। प्रथमधातूद्भवा वा रसायिकाः ।
“रसासृग्मांसमेदोऽस्थिमजाशुक्राणि धातवः ।" [ अष्टाङ्गहृ० १ । १३ ] इति वचनात् रसः प्रथमो धातुः । ते४ सूक्ष्मत्वात् वक्तुं न शक्यन्ते । संस्वेदः प्रस्वेदः, तत्र भवाः संस्वेदिमाः "एवमादित्वात" [
] भावार्थे इमप्रत्ययः । चक्रवर्तिकक्षाद्युत्पन्नास्तेऽपि सूक्ष्मत्वाद् वक्तुं न शक्यन्ते । सम्मूछिमाः, समन्तात् पुद्गलानां मूर्छनं २५ संघातीभवन संमूर्छः तत्र भवाः सम्मूछिमाः। इमप्रत्ययः पूर्ववत् । सर्पोन्दुरगोरखुरमनुप्यादयोऽपि सम्मूर्च्छनादुत्पद्यन्ते । उक्तञ्च
"शुक्रसिंघाणकश्लेष्मकर्णदन्तमलेषु च । अत्यन्ताशुचिदेशेषू सद्यः सम्मूर्च्छनी भवेत् ॥" [ ]
१ -काः कर्णशलाकामु- आ०, ब०, ६०, ज० । २-काश्च मा- आ०, ब०, २०, ज० । ३-मदालूद्भ-ता० । ४ तेन सू- आ०, ब०, द०, ज० । ५ -न्दुरदुरगो- ता०। ६ -गोखुद०। ७ -देहेषु भा०, ब०, द०, ज०। ८ -नोभ- आ०, ब०, द०, ज० ।
For Private And Personal Use Only