SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वार्थवृत्तौ [२२१४ पुलकमणिः प्रवालवर्णः । स्फटिकमणिः स्वच्छरूपः । रोहितप्रभः पद्मरागः । वैडूर्य्य मयूरकण्ठवर्णम् । जलकान्त उदकवर्णः । रविप्रभः सूर्यकान्तः। गैरिको रुधिराख्यमणिः गरिकवर्णः । चन्दनः श्रीखण्डसमगन्धवर्णो मणिः । वर्वरो मरकतमणिः । बकः पुष्परागमणिः बकवर्णः । मोचो नीलमणिः कदलीपत्रवर्णः । मसारगल्पो मसृणपाषाणमणिः, विद्रुममणिवर्णः। ५ शर्करोपलशिलावज्रप्रवालवर्जिताः शुद्धपृथिवीविकाराः। शेषाः खरपृथिवीविकाराः । एतेष्वेव च पृथिव्यष्टकमन्तर्भवति । तत्किम् ? मेर्वादिशैलाः, द्वीपाः, विमानानि, भवनानि, वेदिकाः, प्रतिमाः, तोरणस्तूपचैत्यवृक्षजम्बूशाल्मलिधातक्यः, रत्नाकरादयश्च । ___ एवं विलोडितं यत्र तत्र विक्षिप्तं वस्त्रादिगालितं जलमाप उच्यते। अपकायिकजीवपरिहृतमुष्णं च जलम् अप्कायः प्रोच्यते । अप्कायो विद्यते यस्य स अप्कायिकः । अपः १० कायत्वेन यो गृहीष्यति विग्रहगतिप्राप्तो जीवः स अप्जीवः कथ्यते । __ इतस्ततो विक्षिप्तं जलादिसिक्तं वा प्रचुरभस्मप्राप्तं वा मनाक्तेजोमानं तेजः कथ्यते । भस्मादिकं तेजसा परित्यक्तं शरीरं तेजस्कायो निरूप्यते । तद्विराधने दोषो नास्ति, स्थावरकायनामकर्मोदयरहितत्वात् । तेजः कायत्वेन गृहीतं येन सः तेजस्कायिकः। विग्रहगती प्राप्तो जीवस्तेजोमध्येऽवतरिष्यन् तेजोजीवः प्रतिपाद्यते । १५ वायुकायिकजीवसन्मूर्छनोचितो वायुर्वायुमात्रं वायुरुच्यते । वायुकायिकजीवपरिहृतः सदा विलोडितो वायुर्वायुकायः कथ्यते। वायुः कायत्वेन गृहीतो येन स वायुकायिकः कथ्यते। वायु कायत्वेन गृहीतुं प्रस्थितो जीवो वायुजीव उच्यते । सार्द्रः छिन्नो भिन्नो मर्दितो वा लतादिर्वनस्पतिरुच्यते । शुष्कादिर्वनस्पतिर्वनस्पतिकायः । जीवसहितो वृक्षादिर्वनस्पतिकायिकः । विग्रहगतौ "सत्यां वनस्पतिर्जीवः वनस्पति२० जीवो भण्यते। प्रत्येकं चतुर्यु भेदेषु मध्ये पृथिव्यादिकं कायत्वेन गृहीतवन्तो जीवा विग्रहगतिं प्राप्ताश्च प्राणिनः स्थावरा ज्ञातव्याः, तेषामेव पृथिव्यादिस्थावरकायनामकर्मोदयसद्भावात् , न तु पृथिव्यादयः पृथिवीकायादयश्च स्थावराः कथ्यन्ते, अजीवत्वात् कर्मोदयभावाभावाच । एतेषां कति प्राणाः ? स्पर्शनेन्द्रियप्राणः, कायबलप्राणः, उच्छ्वास-निश्वासप्राणः, २५ आयुःप्राणश्च, चत्वारः प्राणाः सन्ति । तेनैते पञ्चतयेऽपि स्थावराः प्राणिन उच्यन्ते । यद्यते स्थावराः, तर्हि असा उच्यन्ताम् । ते के इति प्रश्ने सूत्रमिदमुमास्वामिनः प्राहुः द्वीन्द्रियादयस्त्रसाः ॥ १४ ॥ १ रुधिराकारम- आ०, ब०, द०, ज०। २ -गल्लो म- ज०। ३ मेरुपर्वतादि आ०, ज., द०, ब०। ४ -कर्मरहि-ता०, व० । ५ सत्यां वनस्पतिजीवो भ- वा०, व०।६ -दयाभावाच्च आ०, बा, द०, ज०। ७ -वरप्रा- आ०, ब०, द०, ता०,१०। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy