SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वार्थवृत्तौ' [२२१२-१३ मनश्चित्तं तद्विप्रकारम्-द्रव्यभावमनोभेदात् । पुद्गलविपाकिकर्मोदयापेक्षं द्रव्यमनः । वीर्यान्तरायनोइन्द्रियावरणक्षयोपशमापेक्षया आत्मनो विशुद्धिर्भावमनः। ईदृग्विधेन मनसा वर्तन्ते ये ते समनस्काः। न विद्यते पूर्वोक्तं द्विप्रकारं मनो येषां ते अमनस्काः । समनस्काश्च अमनस्काश्च समनस्काऽभनस्का द्विप्रकाराः संसारिणो जीवा भवन्ति । अत्र द्वन्द्वसमासे ५ गुणदोषविचारकत्वात् समनस्कशब्दस्य अर्चितत्वम् , गुणदोषविचारकत्वाभावात् अमनस्क शब्दस्य अनर्चितत्वम् । “यच्चार्चितं द्वयो" [ कात० २।५।१३ ] इति वचनात् समनस्कशब्दस्य पूर्वनिपातः। भूयोऽपि संसारिजीवप्रकारपरिज्ञानार्थ सूत्रमिदमाचक्षते आचार्याः संसारिणस्त्रसस्थावराः ॥ १२ ।। संसारो विद्यते येषां ते संसारिणः । त्रसनामकर्मोदयापादितवृत्तयत्रसाः, न पुनः त्रस्यन्तीति प्रसाः मारुतादीनां त्रसत्वप्रसक्तः गर्भादिषु स्थावरत्वप्रसक्तेश्च । स्थावरनामकर्मोदयोपजनितविशेषाः स्थावराः, न पुनः तिष्ठन्तीत्येवं शीलाः स्थावराः, तथा सति मारुतादीनामपि त्रसत्वप्रसक्तिः । “कसिपिसिभासीशस्थाप्रमदाञ्च" [ कात० ४।४।४७ ] इत्यनेन वरप्रत्ययेन रूपमेवं सिद्धम् । त्रसाश्च स्थावराश्च त्रसस्थावराः संसारिणो जीवा भवन्ति । १५ ननु 'संसारिणो मुक्ताश्च' इत्यत्र संसारिग्रहणं वर्तत एव पुनः संसारिग्रहणमनर्थकम् ; इत्याह-सत्यम् । तेनैव पूर्वोक्तसंसारिग्रहणेनैव यदि संसारिग्रहणं सिद्धं तर्हि 'समनस्काऽमनस्काः' अस्मिन्सूत्रे यथासंख्यत्वात् संसारिणः समनस्का भवन्ति मुक्ता अमनस्का भवन्ति इत्येवमर्थः सञ्जायते । तच्चार्थसम्भावनमनुपपन्नम् । तस्मात् समनस्कामनस्काश्च ये संसारिणो वर्तन्ते तदपेक्षया पुनः संसारिग्रहणम् , अन्यथा संसारिशब्दग्रहणमन्तरेण 'बसस्थावराः' इति यदि २० सूत्रं क्रियते तथापि संसारिणत्रसाः मुक्ताः स्थावरा इत्यपि अनुपपन्नोऽर्थः समुत्पद्यते। तेन कारणेन 'संसारिणस्नसस्थावराः' इति सूत्रं कृतम् । ते संसारिणो द्विप्रकारा भवन्ति त्रसाः स्थावराश्च । द्वीन्द्रियादारभ्य अयोगकेवलिपर्यन्तास्त्रसाः । तस्मात्कारणात् चलनाऽचलनापेक्षं त्रसस्थावरत्वं न भवति । किं तर्हि ? कर्मोदयापेक्षं त्रसस्थावरत्वं भवति । तेन कारणेन वसनामकर्मोदयवशीकृतास्त्रसाः, स्थावरनामकर्मोदयवशवर्तिनः स्थावरा इत्युच्यन्ते । त्रसाणा२५ मल्पस्वरत्वात् सर्वोपयोगसम्भवेन अर्चितत्वाञ्च पूर्वनिपातः ।। त्रसस्थावरेषु त्रसानां पूर्व ग्रहणम् , स्थावराणां पश्चाद्ग्रहणम् इत्यनुक्रममुल्लङध्य एकेन्द्रियाणामतिबहुवक्तव्यस्याभावात् स्थावरभेदात् (न) पूर्वमेवाहुः पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः ॥१३॥ पृथिवी च आपश्च तेजश्च वायुश्च वनस्पतिश्च पृथिव्यप्तेजोवायुवनस्पतयः। तिष्ठन्ति ३० इत्येवं शीलाः स्थावराः । एते पृथिव्यादय एकेन्द्रियजीवविशेषाः स्थावरनामकर्मादयात् स्थावराः १ कर्मोदयोत्पादित- भा०, ब०, द०, ज०। २ तथा मा- आ०, २०, २०, ज०। ३ -पेक्षत्वं त्र- आ०, ब०, द० ज०। ४ पूर्वग्र-- आ०, ब०, द०, ता, व०। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy