SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २११] द्वितीयोऽध्यायः यलोकपरिसमाप्तेर्योगस्थानानि भवन्ति । एवं तामेव स्थितिमापद्यमानस्य द्वितीयं कषायाध्यवसायस्थानं भवति । तस्यापि द्वितीयस्यापि कषायाध्यवसायस्थानस्यापि अनुभवाध्यवसायस्थानानि योगस्थानानि च पूर्ववद्वेदितव्यानि । एवं तृतीयादिष्वपि कषायाध्यवसायस्थानेष्वपि अ(आs)संख्येयलोकपरिसमाप्तिवृद्धिक्रमो वेदितव्यः । उक्ताया जघन्यायाः स्थितेः समयाधिकायाः कषायादिस्थानानि पूर्ववत् एकसमयाधिकक्रमेण आ उत्कृष्टस्थितेत्रिंशत्सागरोपमको- ५ टीकोटिपरिमितायाः कषायादिस्थानानि वेदितव्यानि । अनन्तभागवृद्धिः, असंख्येयभागवृद्धिः, संख्येयभागवृद्धिः, संख्येयगुणवृद्धिः, असंख्येयगुणवृद्धिः अनन्तगुणवृद्धिः, इमानि षट्स्थानानि वृद्धिः(द्धः)। हानि(ने)रपि तथैव अनन्तभागवृद्धधनन्तगुणवृद्धिरहितानि चत्वारि स्थानानि ज्ञातव्यानि । एवं यथा ज्ञानावरणकर्मपरिवर्तनमुक्तं तथाऽन्येषामपि सप्तानां कर्मणां मूलप्रकृतीनां परिवर्तनं ज्ञातव्यम् । उत्तरप्रकृतीनामपि परिवर्तनक्रमो ज्ञातव्यः। तदेतत्सर्वं १० समुदितं भावपरिवर्त्तनं भवति । तथा चोक्तम् "सव्वा पयडिहि दिओ अणुभागपदेसबंधठाणाणि । मिच्छत्तसंसिदेण य भमिदो पुण भावसंसारे ॥" [ बारस० गा० २९] एवं भावसंसारः सर्वोऽपि मिथ्यात्वमूलः सूरिभिः सूचितो भवति । तदेवं ज्ञायते मिथ्यात्वसहशमन्यत्पापं नास्ति । उक्तश्च समन्तभद्रस्वामिना "न सम्यक्त्वसमं किश्चित् त्रैकाल्ये त्रिजगत्यपि । श्रेयोऽश्रेयश्च मिथ्यात्वसमं नान्यत्तनूभृताम् ॥” [रत्नक० श्लो० ३४] । एवंविधात् पञ्चप्रकारात् संसारपरिवर्तनाद्ये मुक्तास्ते सिद्धाः प्रोच्यन्ते । अत्र कर्मसामय॑सूचनार्थं दोहकमिदमुच्यते "कम्मई दिढघणचिक्कणइं गरुयई वज्जसमाई। णाणवियक्खणु जीवडउ उप्पहि पाडहिं ताई ॥" [ परमात्मप्र० १७८ ] तदपि नैकान्तेन वर्तते । "कत्थवि बलिओ जीवो कत्थवि बलियाइं होंति कम्माई। जीवस्स य कमस्स य पुव्वणिबद्धाइं वैराइं॥" [ अथ ये संसारिणो जीवाः प्रोक्तास्ते कति प्रकारा भवन्तीति प्रश्ने द्विप्रकारा भवन्तीति २५ द्विप्रकारसूचनार्थ सूत्रमिदमाहुराचार्याः समनस्कामनस्काः॥११॥ १ सर्वमुदितं भा- आ०, ब०, ज, द० । २ “जीवो मिच्छत्तवसा भमिदो पुण भावसंसारे ।" । बारस० । ३ सर्वाः प्रकृतिस्थितयः अनुभागप्रदेशबन्धस्थानानि । मिथ्यात्वसंश्रितेन च भ्रमितः पुनः भावसंसारे ।। ४ कर्माणि दृढघनचिक्कणानि गुरुकाणि वज्रसमानि । ज्ञानविचक्षणं जीवमुत्पथे पातयन्ति तानि ॥ ५ कुत्रापि बलवान् जीवो कुत्रापि बलवन्ति भवन्ति कर्माणि । जीवस्य च कर्मणश्च पूर्वनिबद्वानि वैराणि ॥ २० For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy