________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्स्वार्थवृत्ती
[ २०१० "णिरयादिजहण्णादिसु जावदि उपरिल्लिया दु गेवेजा। मिच्छत्तसंसिदेण दु बहुसो वि भवहिदी भमिदा ॥" [ बारस अणु० २८ ]
एवं भवपरिवर्तनं मिथ्यात्वमूलकारणं विज्ञाय परमानन्दपदं यियासुना मिथ्यात्वं परिहृत्य अनन्तसौख्यकारणमोक्षपदप्रदायकसम्यक्त्वादिकमाराधनीयम् । भवमध्ये तु किमप्य५ पूर्व नास्तीति भावार्थः। उक्तश्च
"अत्रास्ति जीव न च किश्चिदभुक्तमुक्तं स्थानं त्वया निखिलतः परिशीलनेन । तत्केवलं विगलिताखिलकर्मजालं स्पृष्टं कुतूहलधिया न हि जातु धाम ॥"
[यश० पू० पृ० २७१ ] इदं सुभाषितं क्षेत्रपरिवर्त्तनेऽपि योजनीयम् । १० इदानीं भावपरिवर्तनं कथ्यते-पञ्चेन्द्रियसंज्ञिपर्याप्तकुदृष्टेर्जीवस्य सर्वजघन्यां
स्वयोग्यां ज्ञानावरणप्रकृतेः स्थितिमन्तःकोटीकोटिसंज्ञां स्वीकुर्वतः कषायाध्यवसायस्थानान्यसंख्येयलोकप्रमितानि संख्यातासंख्यातानन्तभागवृद्धि-संख्यातासंख्यातानन्तगुणवृद्धिरूपषट्स्थानपतितानि तत्स्थितियोग्यानि भवन्ति । तत्रान्तःकोटिकोटिस्थितौ सर्वजघन्यकषाया
ध्यवसायस्थाननिमित्तानि, अनुभागाध्यवसायस्थानान्यसंख्येयलोकप्रमितानि भवन्ति । प्रकृति१५ स्थितिबन्धानुभागप्रदेशस्वरूपनिरूपणपरेयं गाथा
"पैयडिट्टि दिअणुभागप्पदेसभेदादु चदुविधो बंधो । जोगा पयडिपदेता हिदिअणुभागा कसायदो होति ॥१॥" [मूलाचागा० १२२१] तथा चोक्तम्
"प्रकृतिः परिणामः स्यात् स्थितिः कालावधारणम् ।
अनुभागो रसो ज्ञेयः प्रदेशः प्रचयात्मकः ॥ २ ॥" [ ]
एवमन्तःकोटीकोटिसंज्ञां सर्वजघन्यां स्थितिं स्वीकुर्वतः सर्वजघन्यं च कषायाध्यवसायस्थानं स्वीकुर्वतः सर्वजघन्यमेव अनुभागस्थानमनुभवस्थानं कर्मरसास्वादनस्थानश्च स्वीकुर्वतो मिथ्यादृष्टेर्जीवस्य तद्योग्यं ज्ञानावरणस्थित्यनुभागोचितं सर्वजघन्ययोगस्थानं
भवति । तेषामेव स्थितिरसकषायानुभागस्थानानां द्वितीयमसंख्येयभागवृद्धिसहितं योगस्थानं २५ भवति । एवञ्च तृतीयादिषु अनन्तभागवृद्ध यनन्तगुणवृद्धिरहितानि चतुःस्थानपतितानि
श्रेण्यसंख्येयभागप्रमितानि योगस्थानानि भवन्ति । तथा तामेव स्थितिं तदेव कषायाध्यवसायस्थानश्च स्वीकुर्वतः द्वितीयम भवाध्यवसायस्थानं भवति । तस्य च द्वितीयानुभागाध्यवसायस्थानस्य योगस्थानानि पूर्ववद्वेदितव्यानि। एवं तृतीयाद्यनुभवाध्यवसायस्थानेष्वपि आअसंख्ये
१ नरकादिजघन्यादिषु यावत् उपरिमन वेयकानि । मिथ्याखसंश्रितेन तु बहुशोऽपि भवस्थितिः भ्रमिता ॥ २ पिपासतां मि- आ०, ब०, द०, ज०,। ३ प्रकृतिस्थित्यनुभागप्रदेशभेदात् चतुर्विधो बन्धः । योगात् प्रकृतिप्रदेशौ स्थित्यनुभागौ कषायतो भवन्ति ।। ४ -मनुभावा- ता० ।
For Private And Personal Use Only