________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०१०]
द्वितीयोऽध्यायः त्सर्पिणीकालचतुर्थसमये पुनरुत्पन्नो निजायुभुक्त्वा पुनर्मृतः। एवं सर्वोत्सर्पिणीसमयेषु 'जन्म गृह्णाति तथा सर्वोत्सर्पिणीसमयेषु मरणमपि गृह्णाति । यथा सर्वेषूत्सर्पिणीसमयेषु जन्ममरणानि गृह्णाति तथा सर्वेष्ववसर्पिणीसमयेषु जन्मानि मरणानि च गृह्णाति । एतावता कालेन एकं कालपरिवर्तनं भवति । एवमनन्तानि कालपरिवर्तनानि जीवेन कृतानि । तथा चोक्तम्
"ओसप्पिणि-अवसप्पिणि-समयावलियासु गिरवसेसासु । जादो मरिदो बहुसो भमणेण दु कालसंसारे ॥१॥" [ बारस अणु० २९ ]
एवं विधकालपरिवर्तनमपि जिनस्वामिसम्यक्त्वरहितेन जीवेन क्रियते । यदा तु जिनस्वामिसम्यक्त्वं जीवो गृह्णाति तदा सर्वसामग्री प्राप्य मुक्तो भवति । तेन कारणेन जिनस्वामिसम्यक्त्वमुपादेयमिति भावार्थः । तथा चोक्तम्
"कालु अणाइ अणाइ जिउ भवसायरु वि अणंतु ।
जीवें विणि ण पत्ताइं जिणुसामिउ सम्मत्त ॥१॥" [ परमात्मप्र० २।१४३ ] इदानी भवपरिवर्तनोत्कीर्तनं क्रियते । भवपरिवर्तनं चतुर्गतिपरिभ्रमणम् । तत्र तावन्नरकगतिपरिवर्तनमुच्यते । नरकगतौ दशवर्षसहस्राणि जघन्यमायुः । केनचित् प्राणिना दशवर्षसहस्रप्रमितमायुः प्रथमनरके भुक्तम् । पुनर्भमणं कृत्वा तादृशमायुस्तत्रैव नरके भुक्तम् १५ एवं पुनर्भ्रान्स्वा तृतीयवारेऽपि तादृशमायुर्मुत्तम , एवं चतुर्थादियारेषु तादृशमायुर्दशवर्षसहस्राणां यावन्तः समयास्तावतो वारान् स एव जीवस्तादृशमायुर्भुङ्क्ते । पश्चादेकैकसमयाधिकमायुः पुनः पुनर्भ्रान्त्वा भुङ्क्ते यावत्त्रयस्त्रिंशत् सागरोपमाणि परिपूर्णानि भवन्ति । समयाधिकतया यदि परिपूर्णान्यायूंषि भवन्ति तदा गणनीयानि भवन्ति, अधिकतया तु त्रयस्त्रिंशत्सागरोपमाण्यपि न गणनीयानि भवन्ति । इदानी तिर्यग्भवः सम्भाव्यते । स एव २० जीवस्तिर्यक्त्वेऽन्तर्मुहूर्त्तायुषा उत्पन्नः पुनर्धान्त्वा अन्तर्मुहूर्त्तायुरुत्पद्यते । एवं तृतीयचतुर्थपश्चमादिवारान् तिर्यक्त्वेऽन्तर्मुहूर्तायुरुत्पद्यते यावदन्तर्मुहूर्तायुषः समयाः परिपूर्णा भवन्ति । तत्पश्चात् एकैकसमयाधिकायुरुत्पद्यते । यावत्त्रीणि पल्यानि परिपूर्णानि भवन्ति तावत्तिर्यग्भवपरिवर्त्तनं परिपूर्णं भवति । तत्रापि समयाधिकतया यो भवो गृहीतः स गण्यते, अन्यथागृहीतो भवो न गण्यत इत्यर्थः । यथा तिर्यग्भवपरिवर्तनं सूचितं तथा मनुष्यभवपरिवर्तनं २५ ज्ञातव्यम् । देवगतिपरिवर्त्तनं तु नरकगतिपरिवर्तनवत् बोद्धव्यम् । अत्रायं विशेषः-देवगतौ उपरिमौवेयकसम्बन्ध्येकत्रिंशत्सागरोपमपर्यन्तसमयाधिकतया परिवर्तनं ज्ञातव्यम् । तथा चोक्तम्
.१ जन्ममरणं गृ- आ०, व०, २०, ज०,। २ एवं आ०, ब०, द., ज० ता० । ३ कालः... परिवर्तति व० । ४ उत्सर्पियवसपिणिसमयावलिकासु निरवशेषासु । जातो मृतो बहुशो भ्रमणेन तु कालसंसारे ॥ ५ कालोऽनादिः अनादिर्जीवः भवसागरोऽप्यनन्तः । जीवेन वे न प्राप्ते जिनः स्वामी सम्यक्त्वम् ।।
१२
For Private And Personal Use Only