________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८८
तत्त्वार्थवृत्तौ
[ रा१० पुद्गला गृहीताः समयाधिकामावलिकामतीत्य द्वितीयादिषु समयेषु निर्जीर्णाः प्रागुक्तेन क्रमेण त एव पुद्गलास्तेनैव प्रकारेण तस्य जीवस्य कर्मत्वमायान्ति समुदितं यावत्तावत् कर्मद्रव्यपरिवर्तन कथ्यते । तथा चोक्तम्___"संव्वे वि पुग्गला खलु कमसो भुत्तुझिया य जीवेण ।
असइअणंतखुत्तो पुग्गलपरियदृसंसारे ॥" [बारसअणु० २५ ] तथा चेष्टोपदेशः
"भुक्तोज्झिता मुहुर्मोहान्मया सर्वेऽपि पुद्गलाः ।
उच्छिष्टेष्विव तेष्वद्य मम विज्ञस्य का स्पृहा । [इष्टोप० श्लो० ३०]
इति नोकर्मद्रव्यपरिवर्त्तनं द्रव्यकर्मपरिवर्तनं च द्विविधं द्रव्यसंसारं ज्ञात्वा तद्धेतुभूतं १० मोहकर्म न कर्त्तव्यमिति भावः ।।
अथ क्षेत्रपरिवर्तनं निरूप्यते। तथा हि-सूक्ष्मनिगोदजीवोऽपर्याप्तकः सर्वजघन्यप्रदेशशरीरो लोकस्य अष्टमध्यप्रदेशान् स्वशरीरमध्ये कृत्वा उत्पन्नः, क्षुद्रभवग्रहणं जीवित्वा मृतः, स एव जीवः पुनस्तेनैत्र अवगाहेन द्वौ वारावुत्पन्नखीन वारानुत्पन्नश्चतुर्वारानुत्पन्न इत्येवं
यावदङ्गुलस्य असंख्येयभागप्रमिताकाशप्रदेशास्तावतो वारान् तत्रैवोत्पद्य पुनः एकैकप्रदेशाधि१५ कवेन सर्वलोको निजजन्मक्षेत्रत्वमुपनीतो भवति यावत्तावत् क्षेत्रपरिवर्तनं कध्यते । तथा चोक्तम्
"सव्वं हि लोगखेत्तं कमसो तं णत्थि जंण उप्पणं ।
ओगाहणाए बहुसो परिभमिदो खेत्तसंसारे॥" [ बारसअणु० २६ ] तथा च परमात्मप्रकाश:२० "सो पत्थि को पएसो चउरासीलक्खजोणिमझम्मि ।
जिणधम्मं अलहन्तो जत्थ ण डुलुडुल्लिओ जीओ।" [ परमात्म० ११६५ ]
इति क्षेत्रपरिवर्तनमनन्तवारान् जीवश्चकार। तथा ज्ञात्वा जिनधर्मे मतिः कार्येति भावः।
कालपरिवर्तनं कथ्यते-उत्सर्पिणीकालप्रथमसमये कोऽपि जीव उत्पन्नो निजायुः२५ समाप्तौ मृतः, स एव जीवो द्वितीयोत्सर्पिणीकालद्वितीयसमये पुनरुत्पन्नो निजायु क्त्वा
पुनर्मृतः, तृतीयोत्सर्पिणीकालतृतीयसमये पुनरुत्पन्नो निजायुर्भुक्त्वा पुनर्मतः, चतुर्थो
१ सर्वेऽपि पुद्गलाः खलु क्रमशो भुक्तोज्झिताश्च जीवेन । असकृदनन्तकृत्वः पुद्गलपरिवर्तसंसारे ॥ २ अवगाहनेन द० । ३ -द्यते पु -आ०, द०, व०, ज० । ४ सर्वे हि लोकक्षेत्रं क्रमशस्तन्नास्ति यत्र नोत्पन्नम् । अवगाहनया बहुशः परिभ्रमन् क्षेत्रसंसारे ॥ ५ सो नास्ति कः प्रदेशः चतुरशीतिलक्षयोनिमध्ये । जिनधर्ममलभन् यत्र न परिभ्रमितो जीवो ।। ६ --येषु पु- आ०, ब०, द०, ज०।
For Private And Personal Use Only