SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८७ २११०] द्वितीयोऽध्यायः संसरणं संसारः पञ्चप्रकारपरिवर्तनमित्यर्थः। संसारो विद्यते येषां ते संसारिणः । पञ्चप्रकारात् परिवर्तनान्मुच्यन्ते स्म मुक्ताः, संसारान्निवृत्ता इत्यर्थः। चकारः परस्परसमुच्चये वर्तते । संसारिणश्च जीवा भवन्ति, मुक्ताश्च जीवा भवन्तीति समुच्चयस्यार्थः । ननु मुक्ताः पूज्याः संसारिणस्तु ताक्षज्या न भवन्ति । तर्हि संसारिणां ग्रहणं प्राक् किमित्युपन्यस्तम् ? सत्यम् ; पूर्व संसारिणो भवन्ति पश्चान्मुक्ता भवन्तीति व्यवहारसंसूचनार्थ संसारिणां ग्रहणं ५ पूर्व कृतं स्वामिना उमास्वामिना । स्वामीति संज्ञा कथम् ? उक्तं हि आचार्यादीनां लक्षणम् "पञ्चाचाररतो नित्यं मूलाचारविदग्रणीः । चतुर्वर्णस्य संघस्य यः स आचार्य इष्यते ॥ १ ॥ अनेकनयसङ्कीर्णशास्त्रार्थव्याकृतिक्षमः । पञ्चाचाररतो ज्ञेय उपाध्यायः समाहितैः ॥२॥ सर्वद्वन्द्वविनिर्मुक्तो व्याख्यानादिषु कर्मसु । विरक्तो मौनवान् ध्यानी साधुरित्यभिधीयते ॥३॥ सर्वशास्त्रकलाभिज्ञो नानागच्छाभिवर्धकः । महातपःप्रभाभावी भट्टारक इतीष्यते ॥ ४ ॥ तत्त्वार्थसूत्रव्याख्याता स्वामीति परिपठ्यते । अथ क्रियाकलापस्य कर्ता वा मुनिसत्तमः ॥५॥" . [नीतिसार श्लो० १५-१९] अथ किं तत्पश्चप्रकार परिवर्तनमिति चेत् ? उच्यते-द्रव्यक्षेत्रकालभवभावपरिवर्तनभेदात् परिवर्तनं पञ्चविधम् । तत्र द्रव्यपरिवर्तनं द्विप्रकारम्-नोकर्मद्रव्यपरिवर्तन-द्रव्यकर्मपरिवर्तनभेदात् । तत्र नोकर्मद्रव्यपरिवर्तनमुच्यते-औदारिकवैक्रियिकाहारकशरीरत्रयस्य पर्या- २० प्तिषट्कस्य च ये योग्यपुद्गला एकेन जीवेन एकस्मिन्समये गृहीताः स्निग्धरूक्षवर्णगन्धादिभिस्तीत्रमन्दमध्यमभावेन च यथावस्थिताः द्वितीयादिषु समयेषु निर्जीर्णाः, अगृहीतान् अनन्तवारान् अतीत्य मिश्रितांश्च अनन्तवारान् अतीत्य मध्यमगृहीतांश्च अनन्तवारान अतीत्य, त एव पुद्गलाः तेनैव स्निग्धादिभावेन तेनैव तीब्रादिभावेन च तथावस्थितप्रकारेण च तस्यैव जीवस्य नोकर्मभावमापद्यन्ते यावत् तावत् समुदितं सर्वं त्रैलोक्यस्थितं पुद्गलद्रव्यं नोकर्मद्रव्य- २५ परिवर्तनं कथ्यते । ___ अथ कर्मद्रव्यपरिवर्तनमुच्यते-एकस्मिन् समये एकेनं जीवेन अष्टप्रकारकर्मत्वेन ये १ -न्तीति व० । २ -हितः आ०. ब०, ज०, ८०, व०। ३ परिपद्यते आ० । ४ -ककामणिश- ता० । ५ -दिती- आ०, द०, ब०, ज०। ६ -नमुच्यते- आ०, ब०, द०, ज०, वः । ७ एकेन भावेन आ०, ब०, द०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy