SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org .org Acharya Shri Kailassagarsuri Gyanmandir [२।९-१० · तत्त्वार्थवृत्तौ उपयुज्यते वस्तु प्रति प्रेर्यते यः वस्तुस्वरूपपरिज्ञानार्थम् इत्युपयोगः । “अकरि च कारके संज्ञायाम्" [ पा० सू० ३।३।१८ ] धम् । अथवा आत्मन उप समीपे योजनं उपयोगः “भावे" [ पा० सू० ३।३।१८ ] घञ् । उपयोगः सामान्येन ज्ञानं दर्शनश्बोच्यते । स जीवस्य लक्षणं भवति । कर्म-कर्मक्षयोभयनिमित्तवशादुत्पद्यमानश्चैतन्यानुविधायी परिणाम ५ इत्यर्थः। तेन उपयोगेन लक्षणभूतेन कर्मबन्धबद्धोऽप्यात्मा लक्ष्यते दुवर्णसुवर्णयोर्बन्धं प्रत्येकत्वेऽपि वर्णादिभेदवत् । एवं सति कश्चिदाह-लक्षणेन आत्मा लक्ष्यते । तच्च लक्षणमात्मनः स्वरूपं स्वतत्त्वमेव । स्वतत्त्व-लक्षणयोः को भेदो वर्तते ? सत्यम् ; स्वतत्त्वं लक्ष्य भवेत् , लक्षणं तु लक्ष्यं न भवेदिति स्वतत्त्वलक्षणयोर्महान भेदः । ७ । स द्विविधोऽष्टचतुर्भेदः॥६॥ १० द्वौ विधौ प्रकारौ यस्य स द्विविधः। अष्ट च चत्वारश्च अष्टचत्वारः, ते भेदा यस्य उपयोगस्य स अष्टचतुर्भेदः। स उपयोगः संक्षेपेण द्विविधो भवति ज्ञानदर्शनभेदात् । विस्तरेण तुज्ञातोपलोगोऽष्टभेदः । दर्शनोपयोगश्चतुर्भेदः। के ते ज्ञानोपयोगस्य अष्ट भेदाः, के वा दर्शनोपयोगस्य चत्वारो भेदाः इति चेत् ? उच्यते-मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्ययज्ञानं केवलज्ञानं मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं चेति ज्ञानोपयोगस्य अष्ट भेदाः । १५ चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं चेति दर्शनोपयोगस्य चत्वारो भेदाः। साकार ज्ञानं निराकारं दर्शनम् । कोऽर्थः ? वस्तुनो विशेषपरिज्ञानं ज्ञानम् । विशेषमकृत्वा सत्तावलोकनमात्रं दर्शनम् । तच्च ज्ञानं दर्शनं च। छद्मस्थानां पूर्वं दर्शनं भवति पश्चात् ज्ञानमुत्पद्यते । निरावरणानां तु अर्ह सिद्धसयोगकेवलिनां दर्शनं ज्ञानञ्च युगपद्भवति । यदि दर्शनं पूर्व भवति ज्ञानं पश्चात् भवति तर्हि ज्ञानस्य ग्रहणं पूर्व किं क्रियते ? इत्याह-सत्यम् । “अल्पस्वरतरं २० तत्र पूर्वम् , यच्चार्चितं द्वयोः" [कात० २।५।१२, १३] इत्युभयप्रकारेणापि ज्ञानस्य पूर्वनि पातः । सम्यग्ज्ञानस्याधिकारे पूर्वं ज्ञानं पञ्चविधमुक्तम् । इह तु उपयोगनिरूपणे मत्यादिविपर्ययोऽपि ज्ञानमुच्यते । इत्यष्टविधो ज्ञानोपयोगः कथ्यते । तथा चोक्तं ज्ञानदर्शनयोर्लक्षणम् "सत्तालोचनमात्रमित्यपि निराकारं मतं दर्शनं साकारं च विशेषगोचरमिति ज्ञानं प्रवादीच्छया । २५ तेनैते क्रमवर्तिनी सरजसां प्रादेशिके सर्वतः स्फूर्जन्ती युगपत्पुनर्विरजसां युष्माकमङ्गातिगाः॥१॥" [प्रतिष्ठा० २।९०. एवंविध उपयोगो विद्यते येषां त उपयोगिनः । ते च कति प्रकारा भवन्तीति प्रश्ने सूत्रमिदमाहुराचार्याः संसारिणो मुक्ताश्च ॥१०॥ १ ज्ञानग्र- आ०, द०, ज०। २ ते नेत्रे क्र- ता०, ज०, आ० । तेनेति क्र-व० । ३ -मङ्गान्तिकाः मा०। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy