________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१७-८]
द्वितीयोऽध्यायः "उम्मूलखंधसाहा गुच्छा चुणिऊण तहय पडिदाओ।
जह एदेसिं भावा तहविह लेस्सा मुणेयव्या ॥" [पंचसं० १ । १९२ ] अत्राह कश्चित्-उपशान्तकषायक्षीणकषाययोः सयोगकेवलिनि च शुक्ललेश्या वर्तत इति सिद्धान्तवचनमस्ति, तेषां कपायानुरञ्जनभावाभावसद्भावादौदयिको भावः कथं घटते ? सत्यम् ; पूर्वभावप्रज्ञापनापेक्षया कषायानुरञ्जिता योगप्रवृत्तिः सैवेत्युच्यते । कस्मात् ? भूत- ५ पूर्वकस्तद्दुपचारः इति परिभाषणात् । योगाभावादयोगकेवली अलेश्य इति निर्णीयते । ६।। अथ पारिणामिकभावस्य भेदत्रयमुच्यते
जीवभव्याभव्यत्वानि च ॥७॥ जीवत्वं च चेतनत्वम् , भव्यत्वं च सम्यग्दर्शनज्ञानचारित्ररूपेण भविष्यत्त्वम् , अभव्यत्वं च सम्यग्दर्शनज्ञानचारित्ररूपेण अभविष्यत्त्वम् , जीवभव्याभव्यत्वानीति । १० एते त्रयो भावा अपरद्रव्याऽसमानाः पारिणामिका जीवस्य ज्ञातव्याः। कर्मोपशमक्षयोपशमक्षयानपेक्षत्वात् पारिणामिका इत्युच्यन्ते । चकारादस्तित्वं वस्तुत्वं द्रव्यत्वं प्रमेयत्वमगुरुलघुत्वं नित्यप्रदेशत्वं मूर्तत्वममूर्तत्वं चेतनत्वमचेतनत्वञ्च । एतेऽपि दश भावाः पारिणामिका अन्यद्रव्यसाधारणा वेदितव्याः । कथं पुद्गलस्य चेतनत्वं जीवस्याचेतनत्वमिति चेत् ? उच्यतेयथा दीपंकलिकया गृहीतः स्नेहो दीपशिखा भवति, तथा जीवेन शरीररूपतया गृहीतः १५ पुद्र लोऽपि उपचारात् जीव इत्युच्यते, तेन पुगलस्यापि चेतनत्वं भण्यते । तथा जीवोऽपि आत्मविवेकपराङ्मुख उपचरिताऽसद्भूतव्यवहारनयापेक्षया अचेतन इत्युपचर्यते । एवं मूर्तत्वमपि उपचारेण जीवस्य ज्ञातव्यम् । पुद्गलस्य तूपचारेणापि अमूर्तत्वं नास्ति।
अत्राह कश्चित्-'मूर्त्तकमैकत्वे आत्मनोऽपि मूर्त्तत्वे जीवस्य को विशेषः ? सत्यम् , मूर्तेन कर्मणा सहैकत्वेऽपि लक्षणभेदात् जावस्य नानात्वं प्रतीयते । तँदाह
"बन्धं प्रत्येकत्वं लक्षणतो भवति तस्य नानात्वम् ।
तस्मादमूर्तभावो नैकान्तो भवति जीवस्य ॥" [ यदि लक्षणेन आत्मनो भेदः, 'किं तल्लक्षणं जीवस्य' इति प्रश्ने जीवलक्षणस्वरूपनिरूपणार्थं सूत्रमिदमाहुरुमास्वामिनः
उपयोगो लक्षणम् ॥ ८ ॥
२५
१ उम्मलखं- ता० । उन्मूलस्कन्धशाखागुम्दानि चित्या तथा च पतितानि । यथा एतेषां भावाः तथाविधलेल्या मन्तव्याः ॥ २ -लिनश्च आ०, द०, ज० । -लिनाञ्च व० । ३ भूतपूर्वस्तआ०, ३०, ब०, ज०। ४ कथं जीवस्याचेतनत्वं पुद्गलस्य चेतनत्वमिति आ०, ब०, द०, ज० । ५ दीपकविधया आ०, द०, ब०, ज०। ६ मूतनैकत्वे आ०, ब०, द०, ज०। ७ “उक्तञ्च-बंधं पडि एयत्तं लक्खणदो हवइ तस्स णाणतं । तम्हा अमुत्तिभावोऽयंतो होई जीवस्स ।' -स०सि०२।७।
For Private And Personal Use Only