________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्तौ
[२।६ रत्यरतिशोकमयजुगुप्सास्त्रीपुंनपुंसकवेदलक्षणानां नवानां नोकपायाणां यथासम्भवमुदये च सति मिश्रं चारित्रं भवति । अनन्तानुबन्ध्यप्रत्याख्यानकषायाष्टकस्य उदयस्य क्षये सति तत्सत्तोपलक्षणोपशमे सति प्रत्याख्यानसज्वलनाष्टकस्योदये सति नोकषायनवकस्य यथासम्भवो
दये च सति संयमासंयमः संजायते । सोऽपि मिश्रो भावः ‘कथ्यते । चकारात् संज्ञित्वं ५ सम्यग्मिथ्यात्वं च मिश्रौ भावौ ज्ञातव्यौ।
अथैकविंशतिभेदा औदयिकभावस्योच्यन्ते-- गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयताऽसिद्धलेश्या
श्चतुश्चतुस्त्येकैकैकैकषड्भेदाः ॥ ६॥ गतिश्च कषायश्च लिङ्गश्च मिथ्यादर्शनञ्च अज्ञानञ्च असंयतश्च असिद्धश्च लेश्या १० च गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याः । चत्वारश्च चत्वारश्च त्रयश्च एकश्च
एकश्च एकश्च एकश्च षट् च चतुश्चतुस्त्र्येकैकैकैकपट , ते भेदा यासां गतिकषायलिङ्गमिथ्यादर्शनाज्ञानाऽसंयताऽसिद्धलेश्यानां ताः चतुश्चतुरत्र्येकैकैकैकषड्भेदाः। "द्विनवाष्टादशैकविंशतित्रिभेदाः यथाक्रमम्" [ तक सू० २।२] इत्यतो यथाक्रममिति ग्राह्यम् । तेनायमर्थः-गतिश्चतुर्भेदा । कषायश्चतुर्भेदः । लिङ्गं त्रिभेदम् । मिथ्यादर्शनमेकभेदम्। अज्ञान१५ मेकभेदम् । असंयत एकभेदः। असिद्ध एकभेदः। लेश्याः षड्भेदाः। एत एकविंशतिर्भेदा
औदयिकमावा भवन्ति । तत्र नरकगतिनामकर्मोदयान्नारकत्वं भवतीति नरकगतिरौदयिकी । तथा तिर्यमतिनामकर्मोदयात् तिर्यग्गतिरौदयिकी। तथा मनुष्यगतिनामकर्मोदयान्मनुष्यगतिरौदयिकी। देवगतिनामकर्मोदयाद् देवगतिरौदयिकी। क्रोधोत्पादकमोहकर्मोदयात् क्रोध
औदयिकः। मानोत्पादकमोहकर्मोदयान्मान औदयिकः । मायोत्पादकमोहकर्मोदयान्माया २० औदयिकी । लोभोत्पादकमोहकर्मोदयाल्लोभ औदयिकः । स्त्रीवेदजनकनोकषायमोहकर्मोदयात
स्त्रीवेद औदायिकः । पुंवेदजनकनोकषायमोहकर्मोदयात् पुंवेद औदयिकः । नपुंसकवेदजनकनोकषायमोहकर्मोदयान्नपुंसकवेद औदयिकः । तत्त्वार्थानामश्रद्धानलक्षणपरिणामनिवर्त्तकमिथ्यात्वमोहकर्मोदयात् मिध्यादर्शनमौदयिकम्। ज्ञानावरणकर्मोदयात् पदार्थाऽपरिज्ञानमज्ञानमौ
दयिकम् । चारित्रमोहस्य सर्वघातिस्पर्द्धकस्य उदयादसंयतो भवति, स औदयिको भावः। २५ कर्मोदयसाधारणापेक्ष असिद्धः, सोऽपि औदयिकभाव एव । लेश्या षड्विधापि द्विविधा
द्रव्यलेश्या-भावलेश्याभेदात् । तत्र जीवभावाधिकारे द्रव्यलेश्या नाद्रियते । भावलेश्या तु आद्रियते । कषायोदयानुरञ्जिता योगप्रवृत्तिर्भावलेश्या । साप्यौदयिकीति कथ्यते । सा षड्विधा कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजोलेश्या, पद्मलेश्या, शुक्ललेश्या। तदुदाहरणार्थमियं गाथा। तथा हि
१ भण्यते आ०, द०, ज०, ब० । २ -तिभे-ब०, आ०, द० । ३ -क्षयाऽसि-- आ०, द०, २०, जा।
For Private And Personal Use Only