________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०५]
द्वितीयोऽध्यायः केवली शक्नोति । ७। अनन्तानुबन्धिक्रोधमानमायालोभसम्यक्त्वमिथ्यात्वसम्यम्मिथ्यात्वलक्षणसप्तप्रकृतिक्षयात् क्षायिक सम्यक्त्वम् । ८। षोडशकषायनवनोकषायक्षयात् क्षायिक चारित्रम् ।९।
अत्राह कश्चित्-क्षायिकमभयदानलाभभोगोपभोगादिकं मुक्तेष्वपि प्रसज्यते ; तन्न; शरीरनामतीर्थकरनामकर्मोदयात् तत्प्रसङ्गः, न सिद्धानां शरीरनामतीर्थङ्करनामकर्मोदयोऽस्ति ५ येन तत्प्रसङ्गः स्यात्। तर्हि सिद्धेषु तेषां वृत्तिः कथम् ? अनन्तवीर्याव्याबाधसुखरूपेणव तेषां तत्र प्रवृत्तिः, केवलज्ञानरूपेण अनन्तवीर्यप्रवृत्तिवत् । उक्तं च
"आनन्दो ज्ञानमैश्वर्यं वीर्यं परमसूक्ष्मता । एतदात्यन्तिकं यत्र स मोक्षः परिकीर्तितः ॥१॥" [ यश० उ० पृ० २७३ ] अथ मिश्रो भावोऽष्टादशभेदः कथमिति निरूपयन्तिज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्व
चारित्रसंयमासंयमाश्च ॥५॥ ज्ञानानि चाज्ञानानि च दर्शनानि च लब्धयश्च ज्ञानाज्ञानदर्शनलब्धयः । कथम्भूता ज्ञानाज्ञानदर्शनलब्धयः ? चतुस्लित्रिपञ्चभेदाः चत्वारश्च त्रयश्च त्रयश्च पञ्च च चतुस्त्रित्रिपञ्च, ते भेदा यासां ताश्चतुस्वित्रिपश्वभेदाः। सम्यक्त्वञ्च चारित्रश्च संयमासंयमश्च सम्य- १५ क्त्वचारित्रसंयमासंयमाः । अस्यायमर्थः-चत्वारि ज्ञानानि त्रीणि अज्ञानानि त्रीणि दर्शनानि पञ्च लब्धयः यथाक्रमं भवन्ति । सर्वस्य ज्ञानस्य घातकवीर्यान्तरायादिकर्मोदयस्य क्षये सति तस्यैव सर्वस्य ज्ञानस्यैव घातिनः कर्मणोऽनुभूतस्ववीर्ययुत्तेरप्रादुर्भूतनिजशक्तिप्रवृत्तिनः सदवस्थारूपोपशमे सति विद्यमानावस्थास्वरूपप्रशमे सति देशघातिकर्मोदये च सति मतिश्रुतावधिमनःपर्ययाश्चत्वारो मिश्रभावा भवन्ति, क्षायोपशमिका भवन्तीत्यर्थः । मत्यज्ञानं श्रुता- २० ज्ञानं विभङ्गावधिश्च, एतानि त्रीणि सत्यासत्यरूपत्वादज्ञानानि भवन्ति । तेष्वपि मिश्रो भावो दातव्यः । तद्वच्चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनश्च । एष्वपि दर्शनेषु मिश्रो भावो भवति । तथा दानलाभभोगोपभोगवीर्यान्तरायसर्वघात्युदयस्य क्षये सति सदवस्थालक्षणापशमे सति देशघात्युदये च सति दानलाभभोगोपभोगवीर्यलक्षणा लब्धयः पन्च मिश्रभावा भवन्ति, झायोपशमिका भवन्ति । अनन्तानुबन्धिचतुष्कमिथ्यात्वसम्यग्मिथ्यात्वानां षण्णामुदयक्ष- २५ यात् सद्रूपोपशमात् सम्यक्त्वनाममिथ्यात्वस्य देशघातिनो न तु सर्वघातिन उदयात् मिश्र सम्यक्त्वं भवति, क्षायोपशमिकं सम्यक्त्वं स्यात् । तद्वदेकमित्युच्यते । तस्यापि मिश्रो भावो भवति । अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानलक्षणानां द्वादशानां कषायाणामुदयस्य क्षये सति विद्यमानलक्षणोपशमे सति सज्वलनचतुष्काऽन्यतमस्य देशघातिनश्चोदये च सति हास्य
१ -स्थारूप- मा०, २०, द०, ज० । २ मिश्रलक्षणभा- आ०, २०, ब०, ज०। . ३ -ये स- आ०, ब०, ज०,व० ।
For Private And Personal Use Only