________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२
तत्त्वार्थवृत्ती
[१३-४ अथौपशमिकस्य भावस्य भेदद्वयसूचनपरं सूत्रमाहुः
सम्यक्स्वचारित्रे ॥३॥ सम्यक्त्वं च चारित्रं च सम्यक्त्व चारित्रे, औपशमिको भावो विभेदो भवति । अनन्तानुबन्धिक्रोधमानमायालोभाश्चत्वारः, सम्यक्त्वम् , मिथ्यात्वम्, सम्यग्मिथ्यात्वञ्च, ५ एतासां सप्तानां प्रकृतीनामुपशमादौपशमिकं सम्यक्त्वमुत्पद्यते ।
अनादिकालमिथ्या दृष्टिभव्यजीवस्य कर्मोदयोत्पादितकलुषतायां सत्यां कस्मादुपशमो भवतीति चेत् ? काललब्ध्यादिकारणादिति ब्रूमः। कासौ काललब्धिः ? कर्मवेष्टितो भव्यजीवोऽर्धपुद्गलपरिवर्तनकाल उद्धरिते सत्यौपशमिकसम्यक्त्वग्रहणोचितो भवति । अर्द्धपुद्गल
परिवर्तनादधिके काले सति प्रथमसम्यक्त्वस्वीकारयोग्यो न स्यादित्यर्थः । एका काललब्धिरि१० यमुच्यते। द्वितीया काललब्धिः- यदा कर्मणामुत्कृष्टा स्थितिरात्मनि भवति जघन्या या कर्मणां
स्थितिरात्मनि भवति तदौपशमिकसम्यक्त्वं नोत्पद्यते । तर्हि औपशमिकसम्यक्त्वं कदोपद्यते ? यदा अन्तःकोटीकोटिसागरोपमस्थितिकानि कर्माणि बन्धं प्राप्नुवन्ति भवन्ति । निर्मलपरिणामकारणात् सत्कर्माणि तेभ्यः कर्मभ्यः संख्येयसागरोपमसहस्रहीनानि अन्तःकोटीकोटिसागरो
पमस्थितिकानि भवन्ति तदोपशमिकसम्यक्त्वग्रहणयोग्य आत्मा भवति । इयं द्वितीया काल१५ लब्धिः । तृतीया काललब्धिः कथ्यते-सा काललब्धिर्भावमपेक्षते । कथम् ? भव्यजीवः
पञ्चेन्द्रियः, समनस्कः, पर्याप्तिपरिपूर्णः, सर्वविशुद्धः औपशमिकसम्यक्त्वमुत्पादयति । आदिशब्दाज्जातिस्मरणजिनमहिमादिदर्शनादौपशमिकं सम्यक्त्वमुत्पादयति । षोडशकषायाणां नवनोकषायाणां चोपशमादीपशमिकं चारित्रमुत्पद्यते । ३ ।
अथ श्रायिकभावस्य नवभेदप्रतिपादनपरं सूत्रमुच्यते२० ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ।। ४ ॥
ज्ञानञ्च दर्शनञ्च दानश्च लाभश्च भोगश्च उपभोगश्च वीर्यञ्च ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि सप्त, चकारात् सम्यक्त्वचारित्रे च द्वे, इति नवविधः क्षायिको भावः । केवलज्ञानावरणक्षयात क्षायिकं केवलज्ञानम् । १। केवलदर्शनावरणक्षयात् क्षायिक केवल
दर्शनम् । २ । दानान्तरायक्षयात् क्षायिकमनन्तप्राणिगणानुग्रहकरमभयदानम् । ३ । लाभान्त२५ रायक्षयात् क्षायिको लाभः ? कोऽसौ क्षायिको लाभः ? यस्य लाभस्य बलात् कवलाहाररहितानां
केवलिनां शरीरंबलाधानहेतवोऽनन्यसाधारणाः परमशुभाः सूक्ष्मा अनन्ताः पुदला समयं समयं प्रति सम्बन्धमायान्ति । ४ । भोगान्तरायस्य क्षयात् क्षायिकोऽनन्तो भोगः । कोऽसौ क्षायिको भोगः ? सकृद् भुज्यते भोगः, पुष्पवृष्टिगन्धोदकवृष्ट्यादिकः । ५। उपभोगान्तरायक्षयात् क्षायिकोऽनन्त उपभोगः । कोऽसौ क्षायिक उपभोगः ? सिंहासनचामर३० छत्रत्रयादिकः । ६। वीर्यान्तरायक्षयात् क्षायिकमनन्तवीर्यम् । किं तत् क्षायिकं वीर्यम् ? ____ यद्बलात् केवलज्ञानेन केवलदर्शनेन च कृत्वा सर्वद्रव्याणि सर्वपर्यायांश्च ज्ञातुं द्रष्टुं च
१ -बलादानहे~ ब० । बलादाने हे- आ०, द०, २०, ज० ।
For Private And Personal Use Only