________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः
अथ सम्यग्दर्शनविषयेषु सप्तसु तत्त्वेषु मध्ये जीवतत्त्वस्य किं स्वरूपमिति प्रश्ने सूत्रमिदमाहुः 'श्रीमदुमास्वामिनःऔपशमिकक्षायिको भावौ मिश्रश्च जीवस्य स्वतत्व
मौदयिकपारिणामिको च ॥१॥ कर्मणोऽनुदयरूप उपशमः कथ्यते । यथा कतकादिद्रव्यसम्बन्धात् पङ्क अधोगते ५ सति जलस्य स्वच्छता भवति तथा कर्मणोऽनुदये सति जीवस्य स्वच्छता भवति स उपशमः प्रयोजनं यस्य भावस्य स औपशमिकः । कर्मणः क्षयणं क्षयः। यथा पङ्कात् पृथग्भूतस्य शुचिभाजनान्तरसङक्रान्तस्य अम्बुनोऽत्यन्तस्वच्छता भवति तथा जीवस्य कर्मणः आत्यन्तिकी निवृत्तिः क्षयः कथ्यते। क्षयः प्रयोजनं यस्य भावस्य स क्षायिकः । औपशमिकश्च क्षायिकश्च औपशमिकक्षायिकौ । एतौ द्वौ भावौ-धौ परिणामौ जीवस्य आत्मनः स्वतत्त्वं स्वरूपं १० भवतः। न केवलमौपशमिकक्षायिकौ द्वौ भावो जीवस्य स्वतत्त्वं भवतः किन्तु मिश्रश्च । मिश्रो भावश्च जीवस्य स्वतत्त्वं भवति निजस्वरूपं स्यात् । यथा जलस्य अर्द्धस्वच्छता तथा जीवस्य क्षयोपशमरूपो मिश्रो भावो भवति । अथवा यथा कोद्रवद्रव्यस्य क्षालनविशेषात् क्षीणाऽक्षीणमदशक्तिर्भवति । तथा कर्मणः क्षयोपशमे सति जीवस्योपजायमानो भाव मिश्रः कथ्यते । नरकादौ कर्मण उदये सति जीवस्य संजायमानो भाव औदयिको भण्यते । १५ कर्मोपशमादिनिरपेक्षश्चेतनत्वादि(दिः) जीवस्य स्वाभाविको भावः पारिणामिको निगद्यते । स तु पारिणामिको भावः संसारिमुक्तजीवानां साधारणो भवति । न केवलमेते त्रयो भावाः किन्तु औदयिकपारिणामिकौ च द्वौ भावो जीवस्य स्वरूपं भवतः । एते पञ्च भावाः जीवस्य स्वरूपं भवन्तीत्यर्थः । भव्यस्य औपशमिक-क्षायिकौ द्वौ भावौ भवतः । मिश्रस्तु अभव्यस्यापि भवति । औदयिकपारिणामिकौ च अभव्यस्यापि भवतः । १। अथौपशमिकादीनां पञ्चानां भावानामन्तर्भेदसंख्यानिरूपणपरं सूत्रमिदमूचुः
द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥ २ ॥ द्वौ च नव च अष्टादश च एकविंशतिश्च त्रयश्च द्विनवाष्टादशैकविंशतित्रयः । त एव भेदा येषामौपशमिकादिभावानां ते द्विनवाष्टादर्शकविंशतित्रिभेदाः। अथवा द्विनवाष्टादर्शकविंशतित्रयश्च ते भेदा द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रममनुक्रमेण ज्ञातव्याः । २। २५
१ 'श्रीमदुमास्वामिनः' इति नास्ति ब०, ३० । २ -यस्वरू- आ०, ब०, द०, ज० । ३ अधोगतिगत स- आ० । ४ भरती- ता०, ज० ।
११
For Private And Personal Use Only