________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०
तत्त्वार्थवृत्तौ
[ ११३३ शयनकाले । अथवा इन्द्रज्ञानपरिणत आत्मा इन्द्र उच्यते, अग्निज्ञानपरिणत आत्मा अग्निश्चेति एवम्भूतनयलक्षणम् । ७ ।।
एते नया उत्तरोत्तरसूक्ष्मविषयाः । कथमिति चेत् ? नेगमात् खलु सङ्ग्रहोऽल्पविषयः सन्मात्रग्राहित्वात्, नगमस्तु भावाऽभावविषयत्वाद् बहुविषयः, यथैव हि भावे सङ्कल्पः ५ तथाऽभावे नैगमस्य सङ्कल्पः। एवमुत्तरत्राऽपि योज्यम् । तथा पूर्व-पूर्वहेतुका एते नयाः । कथमिति चेत् ? नैगमः सङ्ग्रहस्य हेतुः । सङग्रहो व्यवहारस्य हेतुः । व्यवहारः ऋजुसूत्रस्य हेतुः। ऋजुसूत्रः शब्दस्य हेतुः। शब्दःसमभिरूढस्य हेतुः। समभिरूढ एवम्भूतस्य हेतुरिति ।
एते नया गौणतया प्रधानतया च अन्योन्याधीनाः सन्तः सम्यग्दर्शनस्य कारणं भवति तन्वादिवत् । यथा तन्त्वादयः उपायेन विनिवेशिताः पटादिसंज्ञा भवन्ति तथा परस्परोधीना १० नयाः पुरुषार्थक्रियासाधनसमर्था भवन्ति । परस्परानपेक्षा नयाः पुरुषार्थक्रियासाधनसमर्था
न भवन्ति केवलतन्तुवत् । ननु विषमोऽयं दृष्टान्तः । कस्माद्विषमः ? यतस्तन्त्वादयो निरपेक्षा अपि सन्तः प्रयोजनलेशमुत्पादयन्ति, यतः कश्चित्तन्तुः प्रत्येकं त्वरक्षणे समर्थो भवति, केवलः पलाशादेवल्कलश्च बन्धने समर्थो भवति, नयास्तु निरपेक्षाः सन्तः सम्यग्दर्शनलेश
मपि नोत्पादयन्ति तेन विषयोऽयमुपन्यासः-अघटमानोऽयं दृष्टान्तः। सत्यम् । उक्तमर्थ १५ भवन्तो न जानन्ति । अस्माभिरेतदुक्तम्-निरपेक्षः तन्त्वादिभिः वस्त्रादिकार्य न भवति ।
यद् भवद्भिरुक्तं कायं तन्न पटादिकार्यम् , किन्तु केवलं तन्त्वादिकार्य भवद्भिरुक्तम् । अथवा केवलस्तन्तुः यद्भवदुक्तं कायं साधयति तस्मिन्नपि तन्तौ परस्परापेक्षा अवयवाः सन्ति । तेनाऽपि अस्मन्मतसिद्धिः । अथ त्वमेवं वक्षि, तन्वादिषु वसनादिकार्य शक्त्यपेक्षया
वर्तत एव, तर्हि अस्मन्मते निरपेक्षेषु नयेष्वपि बुद्धिकथनस्वरूपेषु हेतुवशात् सम्यग्दर्शनहेतु२० परिणामो विद्यत एव । तेन कारणेन तूपन्यासस्य तुल्यतासिद्धिरस्ति । तेन सापेक्षैरेव नयैः
सम्यग्दर्शनसिद्धिरिति सिद्धम् । अस्मिन्नध्याये झानदर्शनस्वरूपमुक्तं नयलक्षणं च प्रतिपादितम् ज्ञानं च प्रमाणमिति वेदितव्यम् । ३३ । इत्यनवद्यगद्यपद्यविद्याविनोदनोदितप्रमोदपीयूषरसपानपावनमतिसमाजरत्नराजमतिसागरयतिराजराजितार्थनर्समर्थनसमर्थेन तर्कव्याकरणच्छन्दोलङ्कारसाहित्यादिशास्त्रनिशितमतिना यतिना श्रीमद्देवेन्द्रकीर्तिभट्टारकप्रशिष्येण शिष्येण च सकलविद्वज्जनविहितचरणसेवस्य श्रीविद्यानन्दिदेवस्य संच्छतिमिध्यामतदुर्ग रेण श्रीश्रुतसागरसूरिणा विरचितायां
श्लोक्तवार्तिकराजवार्त्तिकसर्वार्थसिद्धिन्यायकुमुदचन्द्रोदय(न्द्र)प्रमेयकमलमार्तण्डप्रचण्डाष्टसहस्रीप्रमुखग्रन्थसन्दर्भनिर्भरावलोकनबुद्धिविराजितायां तत्त्वार्थटीकायां प्रथमोऽध्यायः समाप्तः ॥ १॥
१ भवन्ति ता०, व०। २ -धीनतया पु- आ०, ब०, द०, ज० । ३ -क्षया अ- आल, ब०, २०, ज०। ४ -सतु- मा०, द०, ब० । ५ -भाजितर-व०। ६-समर्थनसमर्थतर्क-ता।
For Private And Personal Use Only