SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७१ ११३३ ] प्रथमोऽध्यायः गोचरं गृह्णाति ऋजुसूत्रः । अतीतस्य विनष्टत्वे अनागतस्यासञ्जातत्वे व्यवहारस्याभावाद् वर्त्तमानसमयमात्रविषयपर्यायमात्रयाही ऋजुसून इत्यर्थः । नन्वेवं सति संव्यवहारलोपः स्यात् ; सत्यम् ; अस्य ऋजुसूत्रनयस्य विषयमात्रं(त्र-)प्रदर्शनं विधीयते । लोकसंव्यवहारस्तु सर्वनयसमूहसाध्यो भवति । तेन ऋजुसूत्राश्रयणे संव्यवहारलोपो न भवति । यथा कश्चिन्मृतः, तं दृष्ट्वा 'संसारोऽयमनित्यः' इति कश्चिद् ब्रवीति, न च सर्वः संसारोऽनित्यो वर्त्तत इति । एते ५ चत्वारो नया अर्थनया वेदितव्याः । अन्ये वक्ष्यमाणास्त्रयो नयाः शब्दनया इति । ४ । लिङ्गसङ्ख्यासाधनादीनां व्यभिचारस्य निषेधपरः, लिङ्गादीनां व्यभिचारे दोषो नास्तीत्यभिप्रायपरः शब्दनय उच्यते । लिङ्गव्यभिचारो यथा-पुष्य नक्षत्रं तारका चेति । सङ्ख्याव्यभिचारो यथा-आपः तोयम् , वर्षाः ऋतुः, आम्रा वनम् , वरणा नगरम् । साधनव्यभिचारः कारकव्यभिचारो यथा-सेना पर्वतमधिवसति, पर्वते तिष्ठतीत्यर्थः १० "अधिशीस्थासां कर्म" [ पा० सू० १।४।४६] पुरुषव्यभिचारो यथा- एहि मन्ये रथेन यास्यसि ? न यास्यसि, यातस्ते पितेति । अस्यायमर्थः-एहि त्वमागच्छ । त्वमेवं मन्यसे-अहं रथेन यास्यामि, एतावता त्वं रथेन न यास्यसि । ते तव पिता अग्रे रथेन यातः ? न यात इत्यर्थः । अत्र मध्यमपुरुषस्थाने उत्तमपुरुषः, उत्तमपुरुषस्थाने मध्यमपुरुषः, तदर्थ सूत्रमिदम्-~-"प्रहासे मन्योपपदे मन्यतेस्तमैकवचनं च उत्तमे मध्यमस्य ।" १५ [ ] कालव्यभिचारो यथा-विश्वश्वा अस्य पुत्रो जनिता। भविष्यत्कार्यमौसीदिति । अत्र भविष्यत्काले अतीतकालविभक्तिः । उपग्रहव्यभिचारो यथा-ष्ठा गतिनिवृत्तौ । अत्र परस्मैपदोपग्रहः । तत्र सन्तिष्ठते, अवतिष्ठते, प्रतिष्ठते, वितिष्ठते । अत्र सूत्रम्- “समवप्रविभ्यः" [ का० सू० ३।२।४२ दौ० वृ० १४ ] । रमु क्रीडायामित्यत्र आत्मनेपदोपग्रहः विरमत्यारमति परिरमति । "व्याङ परिभ्यो रम" [ पा० सू० २० १।३।८३ ] । इति व्यभिचारसूत्रम् । देवदत्तमुपरमति । "उपासकर्मकात्" [ ] इति च व्यभिचारसूत्रम् । एवं विधं व्यवहारनयमनुपपन्नमन्याय्यं कश्चित्पुमान् मन्यते । कस्मादन्याय्यं मन्यते ? अन्यार्थस्य अन्यार्थेन वर्त्तनेन सम्बन्धाभावात्। तत्र शब्दनयापेक्षया दोषो नास्ति । तर्हि लोकसमयविरोधो भविष्यति ; भवतु नाम विरोधः। तत्त्वं परीक्ष्यते, किं तेन विरोधेन भविष्यति ? किमौषधं रोगीच्छानुवर्ति वर्त्तते ? । ५ । . २५ ___ एकमप्यर्थ शब्दभेदेन भिन्नं जानाति यः स समभिरूढो नयः । यथा एकोऽपि पुलोमजाप्राणवल्लभः परमैश्वर्ययुक्त इन्द्र उच्यते, स अन्यः, शकनात् शक्रः, सोप्यन्यः, पुरदारणात् पुरन्दरः, सोऽप्यन्यः। इत्यादिशब्दभेदात् एकस्याप्यर्थस्यानेफत्वं मन्यते तत् समभिरूढनयस्य लक्षणम् । ६। यस्मिन्नेव काल ऐश्वयं प्राप्नोति तदेवेन्द्र उच्यते, न चाभिषेककाले न पूजनकाले ३० इन्द्र उच्यते । यस्मिन्नेव काले गमनपरिणतो भवति तदेव गौरुच्यते न स्थितिकाले, न १ -चारो दो आ०, ५०, ज० । २ -सीदति- ता०, व० । ३ -ध्यति का- आ०, व० । ४ -नयल- आ०, द०, ब०, ज०। ५ - परिणता भ- आ०, ८०, प० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy