________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्ती
[११३३ प्रतीत्यनतिक्रमेण हेत्वर्पणात् द्रव्यपर्यायाद्यर्पणात् साध्यविशेषयाथात्म्यप्रापणप्रवणप्रयोगो नय उच्यते । अस्यायमर्थः-साध्यविशेषस्य नित्यत्वाऽनित्यत्वादेः याथात्म्यप्रापणप्रवणप्रयोगो यथावस्थितस्वरूपेण प्रदर्शनसमर्थव्यापारो नय उच्यते । ज्ञातुरभिप्राय इत्यर्थः । स नयो द्विप्रकार:
द्रव्याथिक-पर्यायार्थिकभेदात् । द्रव्यं सामान्यमुत्सर्ग अनुवृत्तिरिति यावत्, द्रव्यमर्थो विषयो ५ यस्य स द्रव्यार्थिकः । पर्यायो विशेषः अपवादो व्यावृत्तिरिति यावत् , पायोऽर्थो विषयो यस्य स पर्यायार्थिकः । तयोर्विकल्पा नैगमादयः । नैगमसङ्ग्रहव्यवहारास्त्रयो नया द्रव्याथिका वेदितव्याः । ऋजुसूत्रंशब्दसमभिरूढेवम्भूताश्चत्वारो नयाः पर्यायार्थिका ज्ञानीयाः।
इदानीं नयानां विशेषलक्षणमुच्यते । अनभिनिवृत्तार्थः-अनिष्पन्नार्थः, सङ्कल्पमात्रप्राही नैगम उच्यते । तथा चोदाहरणम्-कश्चित्पुमान् करकृतकुठारो वनं गच्छति, तं १० निरीक्ष्य कोऽपि पृच्छति-वं किमर्थं ब्रजसि ? स प्रोवाच-अहं प्रस्थमानेतुं गच्छामि । इत्युक्ते
तस्मिन् काले प्रस्थपर्यायः सन्निहितो न वर्तते, प्रस्थो घटयित्वा धृतो न वर्तते । किं तर्हि तदभिनिवृत्तये-प्रस्थनिष्पत्तये संकल्पमात्रे दानियने प्रस्थव्यवहारो भवति । एवमिन्धनजलानलाद्यानयने कश्चित् पुमान व्याप्रियमाणो वर्त्तते, स केनचिदनुयुक्त:-किं करोषि त्वमिति ।
तेनोच्यते-अहमोदनं पचामि । न च तस्मिन् प्रस्तावे ओदनपर्यायः सन्निहितोऽस्ति । किं १५ तर्हि ? ओदनपचनार्थ व्यापारोऽपि ओदनपचनमुच्यते । एवं विधो लोकव्यवहारोऽनभिनिवृत्तार्थः--अनिष्पन्नार्थः सङ्कल्पमात्रविषयो नैगमनयस्य गोचरो भवति । १।।
स्वजात्यविरोधेनैकत्र उपनीय पर्यायान् आक्रान्तभेदान् विशेषमकृत्वा सकलमहणं सङ्ग्रह उच्यते । यथा सदिति प्रोक्ते वाग्विज्ञानप्रवृत्तिलिङ्गानुमितसत्ताधारभूतानां विश्वेषां विशेषम
कृत्वा सत्सङ्ग्रहः । एवं द्रव्यमित्युक्ते द्रवति गच्छति तांस्तान् केवलिप्रसिद्धपर्यायानिति द्रव्यम् , २० जीवाऽजीवतभेदप्रभेदानां सङ्ग्रहो भवति । एवं घट इत्युक्ते घटबुद्धचभिधानानुगमलि
गानुमितसकलार्थसङ्ग्रहो भवति । एवंविधोऽपरोऽपि सङ्ग्रहनयस्य गोचरो वेदितव्यः । २ । __सङ्ग्रहनयविषयीकृतानां सङ्ग्रहनयगृहीतानां सङ्ग्रहनयक्षिप्तानामर्थानां विधिपूर्वकमवहरणं भेदेन प्ररूपणं व्यवहारः। कोऽसौ विधिः ? सङ्ग्रहनयेन यो गृहीतोऽर्थः स विधिरुच्यते , यतः सङ्ग्रहपूर्वेणेव व्यवहारः प्रवर्तते । तथा हि-सर्वसङ्ग्रहेण यद्वस्तु २५ सगृहीतं तद्वस्तु विशेषं नाऽपेक्षते , तेन कारणेन तद्वस्तु संव्यवहाराय समर्थ न भवतीति
कारणात् व्यवहारनयः समाश्रीयते । 'यत्सद्वर्तते तत्कि द्रव्यं गुणो वा , यद्रव्यं तज्जीवोऽजीवो वा' इति संव्यवहारो न कर्तुं शक्यः । जीवद्रव्यमित्युक्ते अजीवद्रव्यमिति चोक्ते व्यवहार आश्रिते ते अपि द्वे द्रव्ये समहनयगृहीते संव्यवहाराय न समर्थे भवतः, तदर्थं
देवनारकादिव्यवहार आश्रीयते , घटादिश्व व्यवहारेण आश्रीयते । एवं व्यवहारनयस्ताव३० त्पर्यन्तं प्रवर्त्तते यावत्पुनर्विभागो न भवति । ३ ।
पूर्वान व्यवहारनयगृहीतान् अपरांश्च विषयान् त्रिकालगोचरानतिक्रम्य वर्तमानकाल
१ द्रव्यं विता०। २ -यो वि-ता०। ३ -वग्रहणं व्य- आ०,९०,०।
For Private And Personal Use Only