________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३३ ]
प्रथमोऽध्यायः कारणविपर्ययस्तावद्भण्यते---रूपादीनां कारणं 'केचिदेकममूर्त ब्रह्मलक्षणं कल्पयन्ति । केचित्तु नित्यं प्रकृतिलक्षणं कल्पयन्ति । अन्ये पृथिव्यादिजातिभिन्नाः परमाणवः चतुर्गुणास्त्रिगुणा द्विगुणा एकगुणाः सदृशजातीयानां कार्यागां कारणं भवन्त्या(त्या-)रम्भकाः सञ्जायन्त इति । अपरे त्वेवं कथयन्ति यत् पृथिव्यप्तेजोबायवश्चत्वारि भूतानि वर्णगन्धरसस्पर्शाश्चत्वारो भौतिकधर्माः, एतेपामष्टानां पृथिव्यप्तेजोवायुवर्णगन्धरसस्पर्शानां समुदयो परमाणुरष्टको ५ भवति । वैभाषिकमते हि पृथिव्यादिमहाभूतैश्चतुर्भिः रूपादिगुणैश्चतुर्भिश्च एको रूपपरमाणुरुत्पद्यते । स रूपपरमाणुरष्टक उच्यते । अपरे त्वेवं वदन्ति-पृथिव्यप्तेजोवायवः कार्कश्यादिद्रवत्वादि-उष्णत्वादिगमन दिगुणाः परमाणवो जातिभिन्नाः कार्यस्यारम्भका भवन्ति-कारणं संञ्जायत इत्यादिकः कारणविपर्ययः ।
___ भेदाभेदविपर्ययस्तु नैयायिकमते-कारणात् कार्यमर्थान्तरभूतमेव । अनर्थान्तरभूतमेव १० इति च परिकल्पना वर्तते।
स्वरूपविपर्ययस्तु मीमांसकमते साङ्ख्यंमते वा। रूपादयो निर्विकल्पाः। कोऽर्थः सन्ति न सन्त्येव वा ? किं तर्हि ? तदाकारपरिणतं विज्ञानमात्रमेव बर्तते, न तु विज्ञानमात्रस्यावलम्बनं बाह्यं वस्तु वर्तते । एवमपरेऽपि परिकल्पनाभेदा दृष्टेष्ठविरुद्धाः प्रत्यक्षपरोक्षविरुद्धा मिथ्यादर्शनोदयात् सञ्जायन्ते । तान् सञ्जायमानान् प्रवादिनः कल्पयन्ति । ६५ तेषु च प्रवादिनः श्रद्धानं जनयन्ति। तेन कारणेन तन्मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं च स्यात् । सम्यग्दर्शनं तु तत्त्वार्थाधिगमे श्रद्धानमुत्पादयति । तेन सम्यग्दर्शनपूर्वकं यद् भवति नन्मतिज्ञानं श्रुतज्ञानमवधिज्ञानं च संबोभवीति । ___ अथ द्विप्रकारप्रमाणेकदेशा नया उच्यन्तेनैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढयंभूता नयाः ॥ ३३ ॥ २०
नैकं गच्छतीति निगमो विकल्पः, निगमे भवो नेगमः। अभेदतया वस्तुसमूहं गृहातीति संग्रहः । सङ्ग्रहेण गृहीतस्यार्थस्य भेदरूपतया वस्तु व्यवह्रियतेऽनेनेति व्यवहारः। ऋजु प्राञ्जलं सरलतया सूत्रयति तन्त्रयतीति ऋजुसूत्रः । शब्दाद् व्याकरणात् प्रकृतिप्रत्ययद्वारेण सिद्धः शब्दः । परस्परेणाभिरूढः समभिरूढः। एवं क्रियाप्रधानत्वेन भूयते एवम्भूतः। नैगमश्च सङ्ग्रहश्व व्यवहारश्च ऋजुसूत्रश्च शब्दश्च समभिरूढश्च एवम्भूतश्च नेगम- २५ सङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवंभूताः। एते सप्त नयाः। नयन्ति प्रापयन्ति प्रमाणैकदेशानिति नयाः । तेषां सामान्यलक्षणं विशेषलक्षणश्च वक्तव्यम् ।
तत्र तावत्सामान्यलक्षणमुच्यते---जीवादावनेकान्तात्मनि अनेकरूपिणि वस्तुन्यविरोधेन
१ वेदान्तिनः । २ सांख्याः। ३ नैयायिकाः। ४ “कामेऽष्टद्रव्यकः "अष्टौ द्रव्याणि . चत्वारि महाभूतानि (पृथिवी+जल+तेजः+वात) चत्वारि भौतिकानि (गन्ध + रस + रूप + स्पर्श ) च ।' -अभिधर्म • टी० २।२२ । ५ वैशेषिकाः । ६ संजायन्ते ता० । संज्ञायते व० । ७ कारणत्वार्थमा- ना०, व०। ८ -ते रू- आ०, ब०, द०, ज०। ९-र्थभेद-ता० ।
For Private And Personal Use Only