________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्ती
[ ११३२ “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" [त० सू० १।१] इत्यत्र । तस्माद् गृहीतः सम्यक्शब्दः मतिश्रुताऽवधिमनःपर्ययकेवलानि ज्ञानम् सम्यग्ज्ञानं भवन्ती (ती) ति सम्बन्धनीयः । तस्मात्सम्यज्ञानाद् वैपरीत्यं विपर्ययो भवति-मिथ्यारूपाण्यज्ञानानि भवन्ति। किंवत् ?
सरजःकटुकतुम्बिकाफलधृतक्षीरवत् । अत्र शुष्कतुम्बिकामध्यगतनिर्गतबीजाऽवशिष्टबुक्तिका ५ रज उच्यते, तस्मिन् सति यदि दुग्धं ध्रियते तदा कटुकं भवति, तुम्बिकेऽतिशोधिते धृतं पयः कटुकं न भवति । तथा मिथ्यादर्शने विनष्टे सति जीवे मत्यादिज्ञाने स्थिते मिथ्याज्ञानं न भवति।
। ननु मणिकनकादयो विष्ठागृहे पतिता अपि न दुष्यन्ति तथा मत्यादयोऽपि; सत्यम् ; मणिकनकादयोऽपि विपारिणामकद्रव्ययोगे दुष्यन्त एव, तथा मत्यादयोऽपि मिथ्यादर्शनयोगे दुष्यन्ति ।
'नन्वाधारदोषात् क्षीरस्य विपर्यासो भवति, मत्यज्ञानादीनां स्वविषयग्रहणे विपर्यासो न भवति, यथा सम्यग्दृष्टिः पुमान् चक्षुरादिभिर्वर्णादिविषयान् प्राप्नोति तथा मिथ्यादृष्टिरपि चक्षुरादिभी रूपादीन् विषयानुपलभते। यथा सम्यग्दृष्टिः श्रुतज्ञानेन रूपादीन विषयान जानाति परॉन प्रति प्ररूपयति च तथा मिथ्यादृष्टिरपि श्रुतज्ञानेन रूपादीन जानाति
परान् प्रति निरूपयति-च । यथा सम्यग्दृष्टिः पुमान् अवधिज्ञानेन रूपिणः पदार्थानवैति १५ तथा मिथ्यादृष्टिरपि विभङ्गज्ञानेन रूपिणोऽर्थानवगच्छति' इति केनचिदुपन्यासे कृते तन्मतनिरासाथं भगवद्भिः सूत्रमुच्यते
सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥ ३२ ॥ सच्च प्रशस्तं तत्त्वज्ञानम् , असच्च अप्रशस्तं मिथ्याज्ञानम् सदसती, अथवा सत् विद्यमानम् असत् अविद्यमानम् सदसती तयोः सदसतोः। न विशेषः अविशेषस्तस्माद२० विशेषात्। यहच्छया स्वेच्छया उपलब्धिरुपलम्भनं ग्रहणं यहच्छोपलब्धिस्तस्या यदच्छो
पलब्धः । उन्मत्त इव उन्मत्तवत् । मतिश्रुतावधीनां विपर्ययः कस्माद्भवति ? सदसतोः सम्बन्धित्वेनाविशेषात् , अविशेषेण यदृच्छोपलब्धेविपर्ययो भवति । अत्रायमर्थः-मिथ्यादर्शनोदयात् जीवः कदाचित् सदपि रूपादिकमसदित्यङ्गीकरोति, कर्हि चिदसदपि रूपादिकं
सदित्यध्यवस्यति । अन्यदा सद् रूपादिकं सदेव मनुते, असद् रूपादिकमसदेव अवैति । २५ किंवत् ? उन्मत्तवत्, पित्तोदयाकुलितबुद्धिवत् । यथा पित्तोदयाकुलितमतिः पुमान्
निजमातरं निजभाऱ्यां मन्यते भार्याञ्च मातरं यदृच्छया मन्यते । कदाचिन्मातरं मातरमेव मन्यते भायाँ भार्यामेव जानाति । तथा अश्वं गां मन्यते, गामश्वं मन्यते । अश्वमश्वं गां गाश्च मन्यते । तथाऽपि तत्सम्यग्ज्ञानं न भवति । एवमाभिनिबोधिकश्रुतावधीनामपि
रूपादिषु विपर्ययो भवति । तद्यथा कश्चिन्मिध्यादर्शनपरिणाम आत्मनि स्थितः सन् ३० मत्यादिभी रूपादिग्रणे सत्यपि कारणविपर्ययं भेदाभेदविपर्ययं स्वरूपविपर्ययञ्चोत्पादयति ।
१ सरुजःक-द० । २ -तेऽतिधृतं आ०, ब०, द०।३ -णामिक- आ०, २०, द०, ज० । ४ -भिः रूपादीन् आ०, ब०, द०, ज०, व०। ५ -न् प्ररू- आ०, द०, ज०।
For Private And Personal Use Only