SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२७-३१] प्रथमोऽध्यायः अथाऽवधिविषयनिबन्ध उच्यते रूपिष्ववधेः ॥ २७ ॥ नियमसूत्रमिदम् । अस्यायमर्थः-रूपिषु पुद्गलेषु पुद्गलसम्बन्धिजीवेषु च अवधेविषयनिबन्धो भवति । 'असर्वपर्यायेषु' इत्यष्यत्र सम्बन्धनीयम् , तेन स्वयोन्यपर्यायेषु अल्पेषु पर्यायेषु न त्वनन्तेषु पर्यायेष्ववधिः प्रवर्तते । अथ मनःपर्ययस्य विषयनिबन्ध उच्यते तदनन्तभागे मनःपर्ययस्य ॥२८॥ तस्य सर्वावधिज्ञानगम्यस्य रूपिद्रव्यस्य यः पर्यायस्तस्याऽनन्तभागस्तदनन्तभागः तस्मिन् तदनन्तभागे, मनःपर्यायस्य विषयनिबन्धो भवति सूक्ष्मविषयत्वात् । अन्यत्रं च मनःपर्ययः प्रवर्त्तते, अपरेषु भागेषु प्रवर्तत इत्यर्थः । अथ केवलज्ञानस्य विषयनिबन्ध उच्यते सर्वद्रव्यपर्यायेषु केवलस्य ॥ २९ ॥ द्रव्याणि च पर्यायाश्च द्रव्यपर्यायाः, सर्वे च ते द्रव्यपर्यायाः सर्वद्रव्यपर्यायाः, तेषु सर्वद्रव्यपर्यायेषु । सर्वेषु द्रव्येषु सर्वेषु पर्यायेषु च केवलस्य केवलज्ञानस्य विषयनिबन्धो भवति । जीवद्रव्याणि अनन्तानन्तानि ततोऽप्यनन्तानन्तानि पुद्गलद्रव्याणि अणुस्क- १५ न्धभेदयुक्तानि, धर्माऽधर्माकाशानि, कालश्चासङ्ख्येयः, चतुर्णा त्रिकालसम्बन्धिनः पर्यायाः पृथगनन्ताऽनन्ताः। तेषु सर्वेषु द्रव्यपर्यायेषु अनन्तमहिमकेवलज्ञानं प्रवर्तत इति । अथ पश्चज्ञानेषु कति ज्ञानानि एकस्मिन्नात्मनि युगपद्भवन्तीति प्रश्ने सूत्रमिदमाहुः एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः ॥ ३०॥ एकोऽद्वितीय आदिरवयवो येषां तानि एकादीनि एकप्रभृतीनि ज्ञानानि । भाज्यानि २० योजनीयानि । युगपत् समकालम् । एकस्मिन्नात्मनि आचतुर्व्यः चत्वारि ज्ञानानि यावत् । एकस्मिन् जीवे पश्च ज्ञानानि युगपन्न भवन्ति । एकं ज्ञानं यदा भवति तदा केवलज्ञानमेव, केवलज्ञानेन क्षायिकेन सह अपराणि चत्वारि ज्ञानानि क्षायोपशमिकानि युगपन्न भवन्ति । यदा द्वे ज्ञाने युगपद् भवतस्तदा मतिश्रुते । त्रीणि ज्ञानानि यदा युगपद् भवन्ति तदा मतिश्रुताऽवधिज्ञानानि भवन्ति, अथवा मतिश्रुतमनःपर्य्ययज्ञानानि भवन्ति । यदा चत्वारि २५ युगपद् भवन्ति तदा मतिश्रुतावधिमनःपर्ययज्ञानानि भवन्ति । अथ मत्यादीनि ज्ञानान्येव भवन्ति आहोस्विदन्यथापि भवन्ति इति प्रश्ने सूत्रमिदमुच्यते मतिश्रु ताऽवधयो विपर्ययश्च ॥ ३१ ॥ मतिश्च श्रुतश्च अवधिश्च मतिश्रुताऽवधयः। एते त्रयस्त्रीणि ज्ञानानि विपर्ययश्च मिथ्यारूपाणि भवन्ति । चकारात् सम्यग्ज्ञानरूपाणि च भवन्ति । सम्यकशब्द आदावेवोक्तः ३० १ -प्यनन्तानि आ०, द०, ब०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy