________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्ती
[श२६ पर्ययज्ञानस्य च विशेषो विशुद्ध्यादिभिश्चतुभिर्वेदितव्यः । तत्र अवधिज्ञानात् मनःपर्याय
ज्ञानं विशुद्धतरं भवति सूक्ष्मवस्तुगोचरत्वात् । क्षेत्रमवधेर्मनःपर्ययज्ञानाद् बहुतरम् , त्रिभुवनस्थितपुद्गलप-यतत्सम्बन्धिजीवपर्यायज्ञायकत्वात् । मनःपर्ययस्य क्षेत्रमल्पम्',
उत्कर्षेण मानुषोत्तरशैलाभ्यन्तरवर्तित्वात् । अवधिज्ञानस्य विषयं "रूपिष्ववधेः" ५ [तसू० ११२७] इत्यनेन वक्ष्यति । मनःपर्ययज्ञानस्य विषयं "तदनन्तभागे मनःपर्ययस्य" [त० सू० १०२८ ] इत्यनेन सूत्रेण वक्ष्यति।
___स्वामित्वमुच्यते- मनःपर्यायो मनुष्येषूत्पद्यते न देवनारकतिर्यक्षु । मनुष्येष्वपि गर्भजेषूत्पद्यते न सम्मूर्छनजेषु । गर्भजेध्वपि कर्मभूमिजेषूत्पद्यते न त्वकर्मभूमि
जेषु । कर्मभूमिजेष्वपि पर्याप्तकेषूत्पद्यते, न त्वपर्याप्तकेषु । पर्याप्तकेष्वपि सम्यग्द१० ष्टिषुत्पद्यते, न मिथ्यादृष्टिसासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टिषु । सम्यग्दृष्टिष्वपि संयते
धूत्पद्यते, न त्वसंयतसम्यग्दृष्टिसंयताऽसंयतेषु । संयतेष्वपि प्रमत्तादिषु क्षीणकषायान्तेधूत्पद्यते, न सयोगकेवल्ययोगकेवलिषु । प्रमत्तादिष्वपि प्रवर्द्धमानचारित्रेषूत्पद्यते, न हीयमानचारित्रेषु । प्रवर्द्धमानचारित्रेष्वपि सप्तविधान्यतमर्द्धिप्राप्तेषूत्पद्यते, "नानृद्धिप्राप्तेषु ।
ऋद्धिप्राप्तेष्वपि केषुचिदुत्पद्यते न सर्वेषु । तेन कारणेन विशिष्टसंयमवन्तो मनःपय॑यस्य १५ स्वामिनो भवन्ति । अवधिस्तु चातुर्गतिकेषु भवति । इति स्वामिभेदाद् विशेषः।।
__मनःपर्ययज्ञानादनन्तरं केवलज्ञानलक्षणमभिधातुमुचितम् । तदुल्लम च ज्ञानानां विषयनिबन्धपरीक्षणं क्रियते । केवलज्ञानस्य तु लक्षणं "मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच केवलम्" [त० सू० १० । १] इति वक्ष्यति । तत्र ज्ञानविषयनिबन्धपरीक्षणे
मतिश्रुतज्ञानयोविषयनिबन्ध उच्यते२० मतिश्रुतयोनिबन्धो द्रव्येष्वसर्वपर्यायेषु ॥ २६ ॥
मतिश्च श्रुतश्च मतिश्रुते तयोर्मतिश्रुतयोः । निबन्धनं निबन्धः विषयनियन्त्रणा विषयनियमो विषयनिर्धारणम् । द्रव्येषु जीवधाऽधर्मकालाकाशपुद्रलेषु । कथम्भूतेषु ? असर्वपर्यायेषु अल्पपर्यायसहितेषु मतिश्रुतविषययोग्यस्तोकपर्यायसहितेषु । "विशुद्धिक्षेत्रस्वामिविषये
भ्योऽवधिमनःपर्यययोः" [त० सू० १२२५] इत्यतो विषयशब्दस्य ग्रहणं कर्त्तव्यम् । तत्र २५ पञ्चमी अत्र तु षष्ठी तत्कथं सम्बन्धः ? "अर्थवशाद्विभक्तिपरिणामः" [ ] इति वचनात् पञ्चम्याः षष्ठीत्वेन परिणमनम् ।।
ननु धर्माऽधर्मकालाकाशा अतीन्द्रियाः, तेषु द्रव्येषु मतिज्ञानं कथं प्रवर्त्तते मतिज्ञानस्य इन्द्रियजनितत्वात् ? सत्यम् ; अनिन्द्रियाख्यं करणं वर्तते, तेन नोइन्द्रिया
वरणक्षयोपशमबलात् तद्ग्रहणमवग्रहादिरूपं न विरुध्यते । तत्पूर्वकं श्रुतज्ञानं तद्विषयेषु ३० नोइन्द्रियविषयद्रव्येषु स्वयोग्येषु प्रवर्तत इति ।
१ -यज्ञेयज्ञा- आ०, ५०, १०, २०, ज० । २ विषयः रू-आ०,१०, २०, ज०।३ -दिक्षीभा०,८०, ब०, ज०१४-पिब-आ.,ब०, २०, ज० । ५ नानर्धिप्रा-१०,१० ।
For Private And Personal Use Only