________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३
१४२४-२५]
प्रथमोऽध्यायः अथवा ऋजुश्च विपुला च ऋजुविपुले तादृशे मती ययोस्तौ ऋजुविपुलमती । अमुना प्रकारेण मनापर्य्ययो द्विप्रकारो भवति-ऋजुमतिः विपुलमतिश्चेति । मनःपय॑यस्य भेदः प्रोक्तः।
इदानी लक्षणमुच्यते-वीर्यान्तराय-मनःपर्यायज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामलाभावष्टम्भात् आत्मनः परकीयमनोलब्धवृत्तिरुपयोगो मनःपर्यय उच्यते । श्रुतज्ञानव्याख्यानावसरे यथा श्रुतस्य मत्यात्मकत्वं निषिद्धं तथा मनःपर्ययज्ञानस्यापि मत्यात्मकत्वं नाशङ्कनीयमिति। ५
ऋजुमतिर्मनःपर्ययः कालापेक्षया जघन्यतया जीवानां स्वस्य च द्वे त्रीणि वा भवग्रहणानि गत्यागत्यादिभिर्निरूपयति । 'उत्कर्षेण सप्तभवग्रहणान्यष्ट वा गत्यागत्यादिभिः प्रकाशयति । क्षेत्रतो जघन्यतया गव्यूतिपृथक्त्वम् । उत्कर्षेण योजनपृथक्त्वस्य आभ्यन्तरं प्ररूपयति न बहिः प्ररूपयति । विपुलमतिर्मनःपर्यायः कालापेक्षया जधन्यतया सप्ताष्टानि (8) भवग्रहणानि प्ररूपयति । उत्कर्षेणासङ्ख्येयानि . गत्यागत्यादिभिर्निरूपयति । क्षेत्रापेक्षया १० जघन्यतया योजनपृथक्त्वम् । उत्कर्षेण मानुषोत्तरपर्वताभ्यन्तरं प्ररूपयति, तबहिर्न जानाति । अथ मनःपर्ययज्ञानभेदयोभूयोऽपि विशेषज्ञानपरिज्ञापनार्थं प्राहुः
विशुद्धधप्रतिपाताभ्यां तद्विशेषः ॥२४॥ मनःपर्ययज्ञानावरणकर्मक्षयोपशमादात्मनः प्रसन्नता विशुद्धिरुच्यते । संयमात्प्रच्यवनं प्रतिपातः, न प्रतिपातः अप्रतिपातः। विशुद्धिश्च अप्रतिपातश्च विशुद्ध्यप्रतिपातौ ताभ्यां ५५ विशुद्ध्यप्रतिपाताभ्याम् । विशुद्ध्या अप्रतिपातेन च विशुद्धेरप्रतिपाताद्वा तद्विशेषः-ऋजुमतिविपुलमत्योर्विशेषो भवति । तत्र उपशान्तकषायस्य चारित्रमोहाधिक्यात् संयमशिखरात् पतितस्य प्रतिपातो भवति । क्षोणकषायस्य चारित्रमोहोद्रेकाभावादप्रतिपातः स्यात् । ऋजुमतेः सकाशाद्विपुलमतिर्द्रव्यक्षेत्रकालभावविशुद्धतरो भवति । कथमिति चेत् ? उच्यते- यः सर्वावधिज्ञानेन कार्मणद्रव्यानन्तभागोऽन्त्यः प्रबुद्धः सोऽन्त्यभागः पुनरपि अनन्तभागीक्रियते, २० तेष्वप्यनन्तभागेषु योऽन्त्यो भागो वर्त्तते स ऋजुमतिना गम्यते, ऋजुमतेविषयो भवति । यः ऋजुमतेः विषयो भवति सोऽपि भागोऽनन्तभागीक्रियते, तेवप्यनन्तभागेषु योऽन्त्यो भागः स विपुलमतेविषयो भवति । एवंविधसूक्ष्मद्रव्यपरिज्ञायकत्वात् विपुलमतेव्यक्षेत्रकालतो विशुद्धिरुत्कृष्टा भवति । भावतो विशुद्धिस्तु सूक्ष्मतरद्रव्यगोचरत्वादेव ज्ञातव्या । भावशुद्धिरपि कस्मात् ? प्रकृष्टक्षयोपशमविशुद्धियोगात् । तथा अप्रतिपातादपि विपुलमतिविशिष्टो भवति, २५ विपुलमतिमनःपर्ययस्वामिनां प्रवर्द्धमानचारित्रोदयत्वात् । ऋजुमतिस्तु प्रतिपाती भवति । कस्मात् ? ऋजुमतिमनःपर्ययज्ञानस्वामिनां कषायोद्रेकहीयमानचारित्रोदयत्वात् । अथाऽवधिमनःपर्याययोर्विशेषप्रतिपादनार्थ सूत्रमिदमुच्यते
विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः ॥२५॥ विशुद्धिश्च प्रसादः, क्षेत्रञ्च भावप्रतिपत्तिस्थानम् , स्वामी च प्रयोजकः स्वरूपकथकः, ३० विषयश्च ज्ञेयवस्तु, विशुद्धिक्षेत्रस्वामिविषयाः, तेभ्यो विशुद्धिक्षेत्रस्वामिविषयेभ्यः । अवधिश्च मनःपर्ययश्च अवधिमनःपर्ययौ, तयोरवधिमनःपर्यययोः । अवधिज्ञानस्य मन:
१ -चारित्रोदयात् आ०, द०, २० । २ -ते श्रीमदुमास्वामिना आ०, ब०, ६०, ज० ।
For Private And Personal Use Only