________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्तौ
[ १।२३ भवति किन्तु यथोक्तसम्यग्दर्शनज्ञानचारित्रतपोलक्षणकारणसन्निधाने सति उपशान्तक्षीणकर्मणामवधेरुपलब्धिर्भवति । तदुपलब्धौ सर्वस्य क्षयोपशमनिमित्तत्वे सत्यपि यत् क्षयोपशमग्रहणं सूत्रे कृतं तन्नियमार्थं ज्ञातव्यम् । कोऽसौ नियमः ? क्षयोपशम एव निमित्तं वर्तते न तु शेषाणां भवो निमित्तमस्ति। ५ ते के षड्विकल्पा इति चेद् ? उच्यते-अनुगाम्यननुगामी वर्धमानो हीयमानोऽवस्थितोऽनवस्थितश्चेति । कश्चित् अवधिर्गच्छन्तं भवान्तरं "प्राप्नुवन्तमनुगच्छति पृष्ठतो याति, सवितुः प्रकाशवत् । १ । कश्चिदवधि वानुगच्छति, तत्रैवातिपतति, विवेकपराङ्मुखस्य प्रश्ने सत्यादेष्ट्रपुरुषवचनं यथा तत्रैवातिपतति, न तेनाले प्रवर्त्यते । २ । कश्चिदवधिः सम्यग्दर्शनादि
गुणविशुद्धिपरिणामसन्निधाने सति यावत्परिमाण उत्पन्नः तस्माद॑धिकाधिको वर्द्धते अस१० ङ्ख्येयलोकपर्यन्तम् , अरणिकाष्ठनिर्मथनोद्भूतशुष्कपर्णोपवर्धमानेन्धनराशिप्रज्वलितहिरण्य
रेतोवत् । ३। कश्चिदवधिः सम्यग्दर्शनादिगुणहान्याऽऽतरौद्रपरिणामवृद्धिसंयोगात् यावत्परिमाण उत्पन्नस्तस्माद् हीयते अङ्गुलस्यासङ्ख्येयभागो यावत्, नियतेन्धनसन्ततिसंलग्नबहिर्कालावत् ।४। कश्चिदवधिः सम्यग्दर्शनादिगुणावस्थितेः यावत्परिमाण उत्पन्नस्तावत्परिमाण एव
तिष्ठति हानि वृद्धिश्च न प्राप्नोति भवक्षयपर्यन्तं केवळज्ञानोत्पादपर्यन्तं वा, लाञ्छनवत् १५ । ५ । कश्चिदवधिः सम्यग्दर्शनादिगुणवृद्धिहानिकारणात् यावत्परिमाण उत्पन्नस्तरमात् वर्धते
हीयते च, यावद्वर्द्धितव्यम् यावद् हातव्यं च, प्रभञ्जनरयचोदितकमलकल्लोलवत् । ६ । एवं'भेदा अवधेः देशावधेरेव वेदितव्याः। परमावधिसर्वावधी विशिष्टसंयमोत्पन्नौ हानिवृद्धिरहितौ ज्ञातव्यौ । तौ तु चरमशरीरस्यैव भवतः। गृहस्थावस्थायां तीर्थङ्करस्य देवनारकाणाञ्च देशा
वधिरेव वेदितव्यः। २० अथ मनःपर्ययज्ञानस्य प्रकारपूर्वकं लक्षणमालक्षयति
ऋजुविपुलमती मनापर्ययः ॥ २३ ॥ वाक्कायमनःकृतार्थस्य परमनोगतस्य विज्ञानात् निवर्तिता पश्चाद्वालिता' • व्याघोटिता ऋज्वी मतिरुच्यते, सरला च मतिः ऋज्वी कथ्यते । वाकायमनःकृतार्थस्य परमनोगतस्य विज्ञानादनिवर्तिता न पश्चाद्वालिता न व्याघोटिता तत्रैव स्थिरीकृता मतिर्विपुला प्रतिपद्यते । २५ कुटिला च मतिः विपुला कथ्यते । ऋज्वी मतिर्विज्ञानं यस्य मनःपर्ययस्य स ऋजुमतिः । विपुला मतिर्यस्य मनःपर्य्ययस्य स विपुलमतिः । तौ ऋजुविपुलमती "पुंवद्भाषितपुंस्कानूङ पूरण्यादिषु स्त्रियां तुल्याधिकरणे।" [का० सू० २।५।१८] । एकस्य मतिशब्दस्य विज्ञातार्थत्वादप्रयोगः रूपे रूपं प्रविष्टम् । “सरूपाणामेकशेष एकविभक्तौ" [पा० सू० १।२।६४ ] ।
१-न्तकर्म-आ०, ब०, द०, ज०।२-मनि-आ०, ब०, २०, ज० । ३ ननु आ०, ५०, ज० । ४ उच्यन्ते आ०, ब०, द०, ज० । ५ प्राप्नुवन्ति आ०, ब०, २०, ज० । ६ प्रवर्तते आ०, ६०, ब०, २०, ज० । ७-दधिको व-आ०, द०, ब०, ज० । ८ अग्नि । ९ पञ्चभे-आग, इ०, ब०, ता० । १०-द्वारिता ता० ।
For Private And Personal Use Only