________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१।२२]
प्रथमोऽध्यायः ___ 'आयुःकर्म-नामकर्मोदयनिमित्तको जीवस्य पर्यायः भव उच्यते । ईदृग्विधो भवः२ प्रत्ययः कारणं हेतुर्निमित्तं यस्यावधेः स भवप्रत्ययः । ईदृग्विधोऽवधिदेवनारकाणां देवानां नारकाणाम् । ननु एवंविधस्यावधेः यदि भवः कारणमुक्तं तर्हि कर्मक्षयोपशमः कारणं न भवति; सत्यम् भवः' प्रधानकारणं भवति यथा पक्षिणामाकाशर्गमनं भवकारणम् , न तु शिक्षागुणविशेष आकाशगमनकारणं भवति । तथैव देवानां नारकाणां च ब्रतनियमादीनामभावेऽपि ५ अवधिर्भवति, तेन कारणेन मुख्यतया भव एवाऽवधेः कारणमुच्यते । क्षयोपशमस्त्ववधेः साधारणं कारणम् , तत्तु गौणम् , तेन तन्नोच्यते । अन्यथा भवः साधारणो वर्तते, स तु एकेन्द्रियविकलेन्द्रियाणामपि विद्यत एव तेषामप्यविशेषादवधेः प्रसङ्गः स्यात् । तथा च देवनारकेषु "प्रकर्षाऽप्रकर्षवृत्तिरवधिर्भवति । देवनारकाणामिति अविशेषोक्तावपि सम्यग्दृष्टीनामेव अवधिभवति मिथ्यादृष्टीनां देवनारकाणामन्येषाञ्च विभङ्गः कथ्यते । “अथ कोऽसौ प्रकर्षाऽप्रकर्ष- १० वृत्तिरवधिरिति चेत् ? उच्यते-१०सौधम्मैशानेन्द्रौ प्रथमनरकपर्य्यन्तं पश्यतः । सनत्कुमारमाहेन्द्रौ द्वितीयनरकान्तमीक्षेते। ब्रह्मलान्तवेन्द्रौ तृतीयनरकपर्यन्तमीक्षते । शुक्रसहस्रारेन्द्रौ चतुर्थनरकपर्यन्तं विलोकेते । आनतप्राणतेन्द्रौ पञ्चमपृथिवीपर्यन्तं निभालयतः । आरणाच्युतेन्द्रौ षष्ठनरकपर्यन्तं विलोकयतः । नवप्रैवेयकोद्भवाः सप्तमनरकपर्यन्तं निरीक्षन्ते । अनुदिशानुत्तराः सर्वलोकं पश्यन्ति । तथा ''प्रथमनरकनारका योजनप्रमाणं पश्यन्ति । द्वितीय- १५ नरकनारका अर्धगम्यूतिहीनं योजनं यावत्पश्यन्ति । तृतीयनरकनारका गन्यूतित्रयं पश्यन्ति । चतुर्थनरकनारकाः सार्द्धद्विगव्यूतिपर्यन्तं पश्यन्ति । पञ्चमनरकनारका द्विगव्यूतिपर्यन्तं पश्यन्ति । षष्टनरकनारकाः सार्द्धगव्यूतिपर्यन्तं पश्यन्ति । सप्तमनरकनारका गव्यूतिपर्यन्तं पश्यन्तीति वेदितव्यम् ।।
अथ क्षयोपशमनिमित्तोऽत्रधिः कथ्यते
___ क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥ २२ ॥
कर्मपुद्गलशक्तीनां क्रमवृद्धिः क्रमहानिश्च स्पर्धकं तावदुच्यते । अवधिज्ञानावरणस्य देशघातिस्पर्द्धकानामुदये सति, सर्वघातिस्पर्द्धकानामुदयाभावः क्षय उच्यते, तेषामेव सर्वघातिस्पर्द्धकानामनुद्यप्राप्तानां सदवस्था उपशम उच्यते, क्षयश्चोपशमश्च क्षयोपशमौ, तौ निमित्तं कारणं यस्याऽवधेः स क्षयोपशमनिमित्तः । कतिभेदः ? षड्विकल्पः । एवंविधोऽवधिः २५ शेषाणां मनुष्याणां तिरश्चाश्च भवतीति वेदितव्यम् । स चावधिः संज्ञिनां पर्याप्तकानाश्च भवति न त्वसज्ञिनां नाप्यपर्याप्तकानां भवति सामर्थ्याभावात् । तेषामपि सोऽवधिः सर्वेषां न
१ आयुष्कर्म भा०, २०, द० । २ भवप्रत्ययः ता० । ३-वधेयादिभ-ता० । ४ तहि क्षयोमा०, ब०, ३०, द', ज० । ५ भवः प्रधानं भ-आ०, ब०, ज० । ६-नामनस्य प्रधानकारणं न तु आ०, 4०, ६०, ज० । ७ प्रकर्षप्रवृत्तिर-आ०, ब०, ६७, ज० । ८ अत्र को-प० । अथ काऽसौ द० । ९ प्रकर्षप्रवृत्तिः भा०, ब०, ६०, ज० । १० महाबंध० गा० ११-१३ । ११ प्रथमनारका नरकयो-आ०, ब० । -गो० जी० गा० ४२३ । १२ स्य देशघातिस्पर्धकानामुदयाभावः आ०, ब०,०।
For Private And Personal Use Only