________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्ती
[ ११२१ पूर्वान्तः परान्तः ध्रुवम् अध्रुवम् च्यवनलब्धिः अध्रुवसम्प्रणिधिः अर्थः भौमावयाद्यं सर्वार्थकल्पनीयं ज्ञानम् अतीतकालः अनागतकालः सिद्धिःउपाध्यश्चेति (?) । च्यवनलब्धिनाम्नि वस्तुनि यानि विंशतिप्राभृतकानि वर्तन्ते तेषु यच्चतुर्थं प्राभृतं तस्य ये चतुर्विशतिरनुयोगास्तेषामिमानि नामानि'-कृतिः वेदना स्पर्शनं कर्म प्रकृतिः बन्धनं निबन्धनं प्रक्रमः अनुपक्रमः अभ्युदयः ५ मोक्षः सक्रमः लेश्या लेश्याकर्म लेश्यापरिणामः सातमसातं दीर्घ ह्रस्वं भवधारणीयं पुद्गलात्मा निधत्तमनिधत्तम् सनिकाचितमनिकाचितं कर्मस्थितिकं पश्चिमस्कन्धः । अत्राल्पबहुत्वं पञ्चविंशतितमोऽधिकारः चतुर्विशत्यनुयोगानां साधारणः । तेन सोऽपि चतुर्विंशतितम एव कथ्यते इति चतुर्दशपूर्वाधिकारः समाप्तः । एवं द्वादशे अङ्गे चत्वारोऽधिकारा गताः ।
इदानीं पञ्चमोऽधिकारः२ प्रोच्यते । सोऽपि पञ्चप्रकार:-जलगताचूलिका-स्थलगता१० चूलिका-मायागताचूलिका-आकाशगताचूलिका-रूपगताचूलिकाभेदात् । तत्र जलस्तम्भनजल
वर्षणादिहेतुभूतमन्त्रतन्त्रादिप्रतिपादिका अद्विशताधिकनशशीतिसहस्रनवलक्षाधिकद्विकोटिपदप्रमाणा जलगता चूलिका । १। तथा स्तोककालेन बहुयोजनगमनादिहेतुभूतमन्त्रतन्त्रादिनिरूपिका पूर्वोक्तपदप्रमाणा स्थलगता चूलिका । २ । इन्द्रजालादिमायोत्पादकमन्त्रतन्त्रादिनिरूपिका
पूर्वोक्तपदप्रमाणा मायागता चूलिका ।३। गगनगमनादिहेतुभूतमन्त्रतन्त्रादिप्रकाशिका १५ पूर्वोकपदप्रमाणा आकाशगता चूलिका । ४ । सिंहव्याघ्रगजतुरगनरसुरवरादिरूपविधायक
मन्त्रतन्त्राद्युपदेशिका पूर्वोक्तपदप्रमाणा रूपगता चूलिका चेति । ५ । एवं पञ्चविधा चूलिका समाप्ता। द्वादशस्याङ्गस्य दृष्टिवादनामधेयस्य परिकर्म-सूत्र-प्रथमानुयोग-पूर्वगत-चूलिकाभिधानाः पञ्च महाधिकाराः समाप्ताः ।
अत्र या पदैः सङ्खथा कृता तस्य पदस्य ग्रन्थसङ्घया कथ्यते-एकपञ्चाशत्कोटयो अष्ट२० लक्षाश्चतुरशीतिसहस्राणि षट्शतानि सार्धेकविंशत्यधिकानि अनुष्टुप्गॅणितानि एकस्मिन् पदे
भवन्तीति वेदितव्यम् । इत्येकपदग्रन्थसङ्घथा ५१०८८४६२१ । इति पदान्थः, तथाक्षर (राणि) १६ । ईदृग्विधानि पदानि अङ्गपूर्वस्य श्रुतस्य कियन्ति भवन्ति १ कोटीनां शतं द्वादशकोट्यश्च त्र्यशीतिलक्षाणि अष्टपञ्चार सहस्राणि पदानां पञ्चपदाथिकानि भवन्ति ।
अथ प्रत्यक्षं प्रमाणं त्रिविधम् । तत्र देशप्रत्यक्षं प्रमाणम् अवधिर्मनःपर्ययश्च । सर्व२५ प्रत्यक्षं केवलज्ञानम् । तत्रावधिविविधः-भवप्रत्यय-क्षयोपशमनिमित्तभेदात् । तत्र भवप्रत्ययोऽ. वधिरुच्यते--
भवप्रत्ययोऽवधिदेवनारकाणाम् ।। २१ ॥
१ द्रष्टव्यम्-ध० टी०सं०पृ० १२५ । दशभ० पृ० ९ । २ कथ्यते आ०, ब०, २०, ज । ३-धिककोटि -आ०, द०, ब०, ज० । ४-प्रतिरूपिका आ० । ५-गुणतानि भा०, ५० | गनितानि ज० । ६ “बारुत्तरसयकोडी तेसीदी तह य होति लक्खाणं । अठ्ठावण्णसहस्सा पंचेव पदाणि अंगाणं ।।" -गो० जी० गा० ३४९ । ७-च अशीति-ता० । ८-प्रत्ययावधिः भा० ।
For Private And Personal Use Only