________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१।२० ]
प्रथमोऽध्यायः प्रमाणं सूत्रम् । त्रिषष्टिशलाकामहापुरुषचरित्रकथकः १ पञ्चसहस्रपदप्रमाणः प्रथमानुयोगः ।
चतुर्दशपूर्वस्वरूपं पूर्वगतम् । तत्र वस्तूनामुत्पादव्ययध्रौव्यादिकथकं कोटिपदप्रमाणमुत्पादपूर्वम् । १। अङ्गानामप्रभूतार्थनिरूपकं षण्णवतिलक्षपदप्रमाणमग्रायणीयपूर्वम् ।२। २ बलदेववासुदेवचक्रवर्तिशक्रतीर्थङ्करादिबलवर्णकं सप्ततिलक्षपदप्रमाणं वीर्यानुप्रवादपूर्वम् । ३ । जीवादिवस्त्वस्ति नास्ति चेति प्रकथकं षष्टिलक्षपदप्रमाणमस्तिनास्तिप्रवादपूर्वम् । ४ । अष्ट- ५ ज्ञानतदुत्पत्तिकारणतदाधारपुरुषप्ररूपकमेकोनकोटिपदप्रमाणं ज्ञानप्रवादपूर्वम् । ५ । वर्णस्थानतदाधारद्वीन्द्रियादिजन्तुवचनगुप्तिसंस्कारप्ररूपकं षडधिककोटिपदप्रमाणं सत्यप्रवादपूर्वम् । ६ । ज्ञानाद्यात्मककत्तृ त्वादियुतात्मस्वरूपनिरूपकं षड्विंशतिकोटिपदप्रमाणमात्मप्रवादपूर्वम् । ७। कर्मबन्धोदयोपशमोदीरणानिर्जराकथकमशीतिलक्षाधिककोटिपदप्रमाणं कर्मप्रवादपूर्वम् । ८ । द्रव्यपव्यरूपप्रत्याख्याननिश्चलनकथकं चतुरशीतिलक्षपदप्रमाणं प्रत्याख्यानपूर्वम् । ९ । १० पञ्चशतमहाविद्याः सप्तशतक्षुद्रविद्या अष्टाङ्गमहानिमित्तानि प्ररूपयत् दशलक्षाधिककोटिपदप्रमाणं विद्यानुप्रवादपूर्वम् । १० । तीर्थङ्करचक्रवर्तिबलभद्रवासुदेवेन्द्रादीनां पुण्यव्यावर्णक षड्विंशतिकोटिपदप्रमाणं कल्याणपूर्वम् । ११ । “अष्टाङ्गवैद्यविद्यागारुडविद्यामन्त्रतन्त्रादिनिरूपकं त्रयोदशकोटिपदप्रमाणं प्राणावायपूर्वम् । १२ । छन्दोऽलङ्कारव्याकरणकलानिरूपकं नवकोटिपदप्रमाणं क्रियाविशालपूर्वम् । १३ । 'निर्वाणपदसुखहेतुभूतं सार्धद्वादशकोटिपद- १५ प्रमाणं लोकबिन्दुसारपूर्वम् । १४ । इति चतुर्दश पूर्वाणि । __प्रथमपूर्व दश वस्तूनि। द्वितीयपूर्वे चतुर्दश वस्तूनि । तृतीयपूर्व अष्टौ वस्तूनि । चतुर्थपूर्वेऽष्टादश वस्तूनि । पञ्चमपूर्वे द्वादश वस्तूनि । षष्ठपूर्वेऽपि द्वादश वस्तूनि । सप्तमपूर्व षोडश वस्तूनि । अष्टमपूर्वे विंशतिवस्तूनि । नवमपूर्वे त्रिंशद्वस्तूनि । दशमपूर्वे पञ्चदश वस्तुनि। एकादशे पूर्वे दश वस्तूनि । द्वादशे पूर्वेऽपि दश वस्तूनि । त्रयोदशे पूर्वेऽपि दश २० वस्तूनि । चतुईशे पूर्वेऽपि दश वस्तूनि । एवं सर्वाणि वस्तूनि पश्चनवत्युत्तरशतं भवन्ति । एकैकस्मिन् वस्तुनि विंशति विंशति प्राभृतानि भवन्ति। एवं प्राभूतानां नवशताधिकानि त्रीणि सहस्राणि वेदितव्यानि । ३९०० ।
द्वितीयस्मिन पूर्वे यानि चतुर्दश वस्तूनि कथितानि तेषामिमानि नामानि वेदितव्यानि
१-सहसूप्रमाणः ता० । २ बलदेवचक्रवर्ति तीर्थ -भा०, द०, ५०, ज० । बलदेववासुदेवचक्रवर्तितीर्थ-व० १३ “अन्तरिक्षभौमाङ्गस्वरस्वप्नलक्षणव्यञ्जनछिन्नानि अष्टौ महानिमित्तानि ।” –त. राज० १।२० । ४ “शल्यं शालाक्यं कायचिकित्सा भूतविद्या कौमारभृत्यमगदतन्त्रं रसायनतन्त्रम् वाजीकरणतन्त्रमिति ।" -सुश्रुत० पृ० १ । ५ निर्वाणसुख -आ०, २०, ब०, ज० । ६ भवति आ०, ब०, ज०। ७ “पुव्वंते अवरंते धुवे अर्धवे चयणलद्धी अधुवमं पणिधिकप्पे अढे भोम्मावयादीए सबढे कप्पणिज्जाणे तीदे अणागय-काले सिज्झये बज्झये त्ति चोद्दस वत्थूणि ।”-ध० टी० सं० पृ० १२३ । “पूर्वान्तं ह्यपरान्तं ध्रुवमध्रुवच्यवनलब्धिनामानि । अध्रुवं सप्रणिधि चाप्यर्थ भौमावयाग्रं च ।। सर्वार्थकल्पनीयं ज्ञानमतीतं त्वनागतं कालं । सिद्धिमुपाध्यं च तथा चतुर्दश वस्तूनि द्वितीयस्य ।।" -दशभ० पृ०८-९।
For Private And Personal Use Only