________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१२२०
तत्त्वार्थवृत्तौ शास्त्रग्रन्थप्रमाणं पञ्चविंशतिलक्षाणि त्रीणि सहस्राणि त्रीणि शतानि अशीत्यधिकानि श्लोकानां भवन्ति, पञ्चदशाक्षराणि च २५०३३८० श्लोकाः अक्षराणि १५ ।
(अङ्गप्रविष्टं शास्त्रं द्वादशप्रकारम् । यत्याचारसूचकमष्टादशसहस्रपदप्रमाणमाचाराङ्गम् । १। ज्ञानविनयच्छेदोपस्थापनाक्रियाप्रतिपादकं षट्त्रिंशत्सहस्रपदप्रमाणं सूत्रकृताङ्गम् ५ ।२। पदव्यंकायुत्तरस्थानव्याख्यानकारकं द्वाचत्वारिंशत्पदसहस्रप्रमाणं स्थानाङ्गम् । ३ ।
धर्माऽधर्मलोकाकाशैकजीवसप्तनरकमध्यबिलजम्बूद्वीपसर्वार्थसिद्धिविमाननन्दीश्वरद्वीपवापिकातुल्यैकलक्षयोजनप्रमाणनिरूपकं भवभावकथकं चतुःषष्टिपदसहस्राधिकलक्षपदप्रमाणं समवायाङ्गम् । ४ । जीवः किमस्ति नास्ति वा इत्यादिगणधरकृतप्रश्नषष्टिसहस्रप्रतिपादकम
ष्टाविंशतिसहस्राधिकद्विलक्षपदप्रमाणा व्याख्याप्रज्ञप्तिः । ५। तीर्थङ्करगणधरकथाकथिका षट्२० पञ्चाशत्सहस्राधिकपञ्चलक्षपदप्रमाणा ज्ञातृकथा ।६। श्रावकाचारप्रकाशकं सप्ततिसहस्रा
धिकैकादशलक्षपदप्रमाणमुपासकाध्ययनम् । ७। तीर्थङ्कराणां प्रतितीर्थ दश दश मुनयो भवन्ति ते तु उपसर्गान् सोदवा मोक्षं यान्ति, तत्कथानिरूपकमष्टाविंशतिसहस्राधिकत्रयोविंशतिलक्षपदप्रमाणमन्तकृशम् । ८ । तीर्थङ्कराणां प्रतितीर्थं दश दश मुनयो भवन्ति ते तु उपसर्ग
सोट्या पश्चानुत्तरपदं प्राप्नुवन्ति, तत्कथानिरूपकं चतुश्चत्वारिंशत्सहस्राधिकद्विनवतिलक्षपद१५ प्रमाणमनुत्तरौपपादिकर्दशम् । ९ । नष्टमुष्ट्यादिकप्रश्नानामुत्तरप्रदायकं षोडशसहस्राधिकत्रिन
वतिलक्षपदप्रमाणं प्रश्नव्याकरणम् । १० । कर्मणामुदयोदीरणासत्ताकथकं चतुरशीतिलक्षाधिककोटिपदप्रमाणं विपाकसूत्रम् । ११ ।)
दृष्टिवादनामधेयं द्वादशमङ्गं तत्पञ्चप्रकारं भवति । परिकर्म (१) सूत्र (२) प्रथमानुयोग (३) पूर्वगत (४) चूलिका (५) भेदात् । तेषु पञ्चसु विधेषु प्रथमं परिकर्म । २० तदपि पश्चप्रकारम्-चन्द्रप्रज्ञप्ति-सूर्यप्रज्ञप्ति-जम्बूद्वीपप्रज्ञप्ति-द्वीपसागरप्रज्ञप्ति-व्याख्याप्रज्ञप्ति
भेदात् । तत्र पञ्चसु प्रज्ञप्तिषु मध्ये पञ्चसहस्राधिकषट्त्रिंशल्लक्षपदप्रमाणा चन्द्रायुर्गतिविभवप्ररूपिका चन्द्रप्रज्ञप्तिः । १। तथा सूर्यायुर्गतिविभवनिरूपिका त्रिसहस्राधिकपश्चलक्षपदप्रमाणा सूर्यप्रज्ञप्तिः ।२। जम्बूद्वीपवर्णनाकथिका पञ्चविंशतिसहस्राधिकत्रिलक्षपद
प्रमाणा जम्बूद्वीपप्रज्ञप्तिः । ३। सर्वद्वीपसागरस्वरूपनिरूपिका षट्त्रिंशत्सहस्राधिकद्वापञ्चा२५ शल्लक्षपदप्रमाणा द्वीपसागरप्रज्ञप्तिः । ४ । रूप्यरूप्यादिषद्रव्यस्वरूपनिरूपिका पत्रिंशसहस्राधिकचतुरशीतिलक्षपदप्रमाणा व्याख्याप्रज्ञप्तिः । ५ । एवं परिकर्म पञ्चप्रकारम् ।
जीवस्य कर्तृत्वभोक्तृत्वादिस्थापकं भूतचतुष्टयादिभवन॑स्योद्वापकमष्टाशीतिलक्षपद
१ द्रष्टव्यम्-जयध० पृ० ९३ दि० २ । २-माणभवभाव-भा०, ब०, द०, ज० । ३ प्रतिदश मुनयो भवन्ति आ०, २०, ज०। ४-दशाङ्गम् व०। ५ एतेषां लक्षणानां पदसंख्यायाश्च विशेषतुलनार्थ द्रष्टव्यम् -३० टी० सं० पृ० ९९-१०७ । जयध० प्र० पृ० ९३-९४-१२२-१३२ । ६ दृष्टिवादस्य विशेषस्वरूपपरिज्ञानाय द्रष्टव्यम् - ५० टो० सं० पृ० १०८-१२२ । जयध० प्र० पृ० ९४-१६, १३२-१४८ । ७ पञ्चवि-आ०, ब०, २०, ज• | 6-स्योत्थापक -भा०, २०, ज०, ता। उच्छेदकमित्यर्थः ।
For Private And Personal Use Only