________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१।२० ]
प्रथमोऽध्यायः तस्मादपि दाहपाकादिकाय्यं श्रुतमिति । एवं श्रुतात् श्रुतं भवति, कथं मतिपूर्वं श्रुतमिति घटते ? सत्यम् ; श्रुतपूर्वस्य श्रुतस्यापि मतिपूर्वकत्वमुपचर्य्यते । यस्माच्छु तात् श्रुतमुत्पन्नंतच्छ्र तमपि क्वचित् प्रघट्टके मतिरित्युपचर्य्यते-व्यवह्रियते, तेन कारणेन मतिपूर्व श्रुतमिति क्यापि न व्यभिचरति ।
पुनरपि कथम्भूतं श्रुतम् ? द्वचनेकद्वादशभेदम् । द्वौ भेदौ यस्य तद् द्विभेदम् । अनेके ५ भेदाः यस्य तत् अनेकभेदम् । द्विभेदश्च तत् अनेकभेदश्च द्वथनेकभेदम् । द्वादश भेदाः यस्य तत् द्वादशभेदम् । द्वथनेकभेदश्च तत् द्वादशभेदञ्च द्वयनेकद्वादशभेदम् । अनया रीत्या एकत्र गृहीतोऽपि भेदशब्द: त्रिषु स्थानेषु प्रयुज्यते । अस्यायमर्थः-श्रुतं पूर्वोक्तमतिपूर्ववि'. शेषणविशिष्टं द्विभेदमनेकभेदं द्वादशभेदश्च भवति । तत्र अङ्गबाह्याङ्गप्रविष्टभेदात् द्विभेदम् । तयोर्द्वयोर्भेदयोर्मध्ये यदङ्गबाह्यं श्रुतं तदनेकभेदम् , मुख्यवृत्त्या चतुर्दशभेदं प्रकीर्णकाभिधान. १० मित्यर्थः । यदङ्गप्रविष्टं तत् द्वादशभेदम् ।
ते के अङ्गबाह्यश्रुतस्य भेदा इति चेत् ? उच्यते । सामायिकं सामायिकविस्तरकथकं शास्त्रम् । १ । चतुर्विंशतितीर्थङ्करस्तुतिरूपः स्तवः।२। एकतीर्थङ्करस्तवनरूपा वन्दना । ३ । कृतदोषनिराकरणहेतुभूतं "प्रतिक्रमणम् । ४। चतुर्विधविनयप्रकाशकं वैनयिकम् । ५। दीक्षाशिक्षादिसत्कर्मप्रकाशकं कृतिकर्म । ६। 'वृक्षकुसुमादीनां दशानां भेदकथकं १५ यतीनामाचारकथकञ्च दशवकालिकम् । ७। भिक्षणामुपसर्गसहनफलनिरूपकमुत्तराध्ययनम् । ८। यतीनां योग्यसेवनसूचकमयोग्यसेवने प्रायश्चित्तकथकं कल्पव्यवहारम् ।९। कालमाश्रित्य यतिश्रावकाणां योग्यायोग्यनिरूपक कल्पाकल्पम् । १०। यतिदीक्षाशिक्षाभावनात्मसंस्कारोत्तमार्थगणपोषणादिप्रकटकं महाकल्पम् । ११ । देवपदप्राप्तिपुण्यनिरूपकं पुण्डरीकम् । १२ । देवाङ्गनापदप्रातिहेतुपुण्यप्रकाशकं महापुण्डरीकम् । १३ । प्रायश्चित्त- २० निरूपिका "अशीतिका चेति । १४ ।
चतुर्दश प्रकीर्णकानि आरातीयैराचार्यैः कालदोषात् संक्षिप्तायुर्मतिबलशिष्योपकारार्थमुपनिवद्धानि । अर्थतः तीर्थकरपरमदेवप्रोक्तं सामान्यकेवलिप्रोक्तञ्च श्रुतं श्रुत्वा गणधरदेवादिभिः श्रुतकेवलिभी रचितमङ्गप्रविष्टशास्त्रार्थं गृहीत्वा आधुनिकैर्यतिभी रचितमपि तदेवेदमिति ज्ञात्वा प्रकीर्णकलक्षणं शास्त्रं प्रमाणम् , क्षीरसागरतोयं 'नीपगृहीतमिव । चतुर्दशप्रकीर्णक- २५
१-विशेषेण विशिष्टभेदम् भा०, २०, ब०, ज० । २ अङ्गबाह्यश्रुतभेदानां निरूपणाय द्रष्टव्यम्-जयध० पृ० ९७-१२१ । ३ उच्यन्ते आ०, ६०, ज० । ४-विषयकम् प० । ५ प्रतिक्रमणं चतुर्विधम् । भा०, द०, २०, ज०। ६ “विकाले अपराह्न स्थारितानि न्यस्तानि द्रुमपुष्पकादीन्यध्ययनानि यतः तस्मात् दशकालिकं नाम ।”-दश० नि० हरि० गा० १५, २०-३० । जयध० पृ. १२ टि० २। द्रुमपुष्पकादीनाम् अध्ययननाम्नां स्थाने वृक्षकुसुमादिशब्दः प्रयुक्तः इति भाति । ७ आशीतिका भा०, ब०, ज०। ८ प्रोक्तञ्च श्रुत्वा भा०, द०, ५०, ज० | ९ निरुपगृहीत-आ०, निपगृहीत ज० । नीपो घटः ।
For Private And Personal Use Only