SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वार्थवृत्तौ [ ११२० मतिपूर्व मित्युच्यते । यथा अङ्कुरः खलु बीजपूर्वको भवति । स चाङ्कुरः सन्तानापेक्षया अपरबीजापेक्षया अनादिनिधनः कथ्यते । वेदाभिप्रायं जैनः खण्डयति । अपौरुषेयत्वं प्रामाण्यकारणं न भवति । यतः अपौरुषेयः शब्दोऽपि नास्ति । येन पुरुषेण वेदाः कृताः स पुमान् भवद्भिर्न स्मर्यते । यदि वेदकृत्पुमान् ५ भवद्भिर्न स्मयंते वर्हि वेदाः २किमकृता भवन्ति ? तत्र दृष्टान्तः, यदि चौर्यपरदाराद्युपदे. शस्य कर्त्ता न स्मर्यते तर्हि तदुपदेशोऽपि अपौरुषेयः, तस्यापि प्रामाण्यप्रसङ्गो भवति । न च वेदोऽकृत्रिमः। तथा चोक्तम् "वेदे हेतुं तु काणादा वदन्ति चतुराननम् । जैनाः कालासुरं बौद्धाचाष्टकान् सकलाः सदा ॥१॥" [ ] १० पौरुषेयस्य श्रुतस्यानादिनिधनस्य च प्रत्यक्षादेः प्रामाण्ये सति को विरोधो वर्तते, न कश्चित् विरोध इत्यर्थः । ___अत्राह कश्चित्प्रथमसम्यक्त्वोत्पत्तिकाले मतिश्रुतयोयुगपदुत्पत्तिर्भवति कथं मतिपूर्व श्रुतमिति ? सत्यम् ; सम्यक्त्वस्य समीचीनत्वस्य ज्ञाने तदपेक्षत्वात् सम्यक्त्वापेक्षत्वात् , श्रुतस्य "आत्मलाभः-उत्पादः क्रमवान् इति कारणान्मतिपूर्वकत्वव्याघाताभावः । तथा चोक्तम् "कारणकज्जविहाणं दीवपयासाण जुगवजम्मे वि । जुगवं जम्मेवि तहा हेऊ णाणस्स सम्मत्तं ॥" [आरा. सा० गा० १३ ] “यत्सम्यक्त्वं तन्मतिज्ञानं वेदितव्यम् , मानसव्यापारादिति । ननु मतिपूर्व श्रुतमिति श्रुतलक्षणं न घटते । कस्मात् ? यतः श्रुतपूर्वमपि श्रुतं भवति । तद्यथा शब्दपरिणतपुद्गलस्कन्धात् स्थापितवर्णपदवाक्यादिभावात् चक्षुरादिगोचराच २० आद्यं श्रुतविषयभावमापन्नात् अव्यभिचारिणः श्रुतात् श्रुतप्रतिपत्तिरिति । यथा विहितसङ्कतो जनः घटात् जलधारणादिकार्य सम्बन्ध्यन्तरं प्रतिपद्यते धूमादेरग्न्यादिद्रव्यवत् । अस्यायमर्थःघट इत्युक्ते घकारटकारविसर्गात्मकं शब्द मतिज्ञानेन प्रतिपद्यते । तदनन्तरं घटात्-घदशब्दात् घटाथं श्रुतज्ञानेन प्रतिपद्यते । तस्मादपि घटार्थात् जलधारणादिकार्य श्रुतज्ञानेन प्रतिपद्यते । तथा चक्षुरादिविषयाद् धूमादेस्तत्रापि धूमदर्शनं मतिज्ञानम् । तस्मादग्निविषयज्ञानं श्रुतज्ञानम् । १-ति अ-आ० । २ किं न कृता आ० । ३-देशकर्ता ज० । ४ "चौर्याधुपदेशस्यास्मर्यमाणकर्तृकस्य प्रामाण्यप्रसङ्गात् ।'-स० सि० पृ० ४८ । “तस्मादपौरुषेयत्वे स्यादन्योऽप्यनराश्रयः । म्लेच्छादिव्यवहाराणां नास्तिक्यवचसामपि ।। अनादित्वाद् भवेदेवं पूर्वसंस्कारसन्ततेः । तादृशेऽपौरुषेयत्वे कः सिद्धेऽपि गुणो भवेत् ।।"-प्रमाणवा० ३।२४५-४६ । अष्टश०, भष्टस० पृ० २३८ । सिद्धिवि. पृ. ४०८ । ५ आत्मनो लाभः आ०, द०, २०, ज० । ६ क्रमवान् मति-आ०, द., 4०, ज० । ७ कारणकार्यविधानं दीपप्रकाशयोर्युगपज्जन्मन्यपि । युगपजन्मन्यपि तथा हेतुर्शानस्य सम्यक्त्वम् ।। ८ तत् सभ्य-आ०, २०, ५०, ज० । ९ श्रुतपूर्वमित्यपि श्रुतं भा० । १०-भावापन्नात् आ० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy