________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२० ]
प्रथमोऽध्यायः मनसोः व्यञ्जनावग्रहो न भवति । चक्षुषोऽप्राप्यकारित्वं कथमवसीयते ? आगमायुक्तितश्च । कोऽसावागमः ?
"पुढे सुणोदि सई अपुढे पुणवि पस्सदे रूवं । गंधं रसं च फासं बद्धं पुढे वियाणाहि ॥" [
कासौ युक्तिः ? चक्षुरप्राप्यकारि । कुतः ? स्पृष्टानवग्रहात् । यत् चक्षुषा स्पृष्टं तन्ना- ५ वगृह्णातीत्यर्थः। यदि चतुः प्राप्यकारि स्यात् तर्हि स्पृष्टमञ्जनं त्वगिन्द्रियवत् तदवगृह्णीयात् । न चावगृह्णाति । चक्षुः स्पृष्टं वस्तु नेक्षत इत्यर्थः । ततः कारणात् मनोवत् चक्षुरप्राप्यकारीति वेदितव्यम् । तेन कारणेन चक्षुर्मनसी द्वे वर्जयित्वा स्पर्शनरसनघ्राणश्रोत्रेन्द्रियाणां चतुर्णामपि व्यञ्जनाऽवग्रहो भवत्येव । तत इत्यायातम्-इन्द्रियाणामनिन्द्रियस्य च अर्थाऽवग्रहः सिद्धः।
___ अथ लक्षणतो भेदतश्च मतिज्ञानं ज्ञातम् । श्रुतज्ञानस्य लक्षणं भेदप्रभेदाश्च वक्तव्या १० इति प्रश्ने सूत्रमित्यूचुः
श्रुतं मतिपूर्व बन्यनेकद्वादशभेदम् ॥ २० ॥ श्रवणं श्रुतं ज्ञान विशेष इत्यर्थः, न तु श्रवणमात्रम् । यथा कुशं लुनातीति कुशलं रूढिवशात् पर्यवदानं क्षेम इत्यर्थः, न तु कुशस्य लवनम् । तथा श्रवणं श्रुतमित्युक्ते श्रवणमात्रं न भवति, किन्तु ज्ञानविशेषः। कोऽसौ ज्ञानविशेषः ? मतिपूर्वम् , मतिः पूर्व १५ निमित्तं कारणं यस्य तन्मतिपूर्वम् । पूरयति प्रमाणत्वमिति पूर्वमिति व्युत्पत्तेः। अथवा मतिः पूर्वोक्तलक्षणा पूर्वार यस्य तन्मतिपूर्व मतिकारणमित्यर्थः । ननु कारणसदृशं कार्य भवतीति कारणात् श्रुतमपि मतिरेव ; तदैकान्तिकं न भवति ; चक्रचीवरदवरदण्डादिकारणो घटः न चक्रचीवरदवरदण्डात्मको भवति, चक्रादौ सत्यपि घटाभावात् । सत्यपि मतिज्ञाने
चक्षुरादिके बलवच्छ तावरणकमादययुतस्य जीवस्य श्रुतज्ञानाभावात् । श्रुतज्ञानावरणक्षयो- २० पशमप्रकर्षे सति श्रुतज्ञानमुत्पद्यते । तेन कारणेन मतिज्ञानं श्रुतज्ञानस्य निमित्तमात्रं वर्त्तते, न तु श्रुतज्ञानं मत्यात्मकं वर्तत इति वेदितव्यम्।
___ अत्राह कश्चित्-श्रुतज्ञानं किलानादिनिधनं भवद्भिरुच्यते, तत्तु मतिपूर्वम् । मतिपूर्वकत्वे श्रुतस्य श्रुताऽभावः प्राप्नोति, यदादिमत् तदन्तवत् , तेन कारणेन पुरुषप्रारब्धत्वात् श्रुतज्ञानस्य न प्रामाण्यम् ; सत्यम् ; द्रव्यक्षेत्रकालादौ समर्पणे श्रुतज्ञानमनादि- २५ निधनं वर्तते, चतुर्थकालादौ पूर्व विदेहादौ कल्पादिषु च श्रुतस्य सर्वसामान्यापेक्षणात् । न हि केनचित् पुरुषेण कचित् क्षेत्रे कदाचित् काले केनचित् प्रकारेण श्रुतज्ञानं कृतं वर्तते । द्रव्यादीनामेव विशेषापेक्षया श्रुतज्ञानस्य आदिरन्तश्च घटते । यतो "वृषभसेनादयो द्रव्यभूताः, तैः श्रुतज्ञानस्य आदिः कृतः । 'वीराङ्गजान्तविशेषापेक्षया श्रुतस्यान्तः सङ्गच्छते । तेन श्रुतं
१ आव० नि० गा० ५ । पञ्चसं० २।६८ । “स्पृष्टं शृणोति शब्दमस्पृष्टं पुनरपि पश्यति रूपम् । गन्धं रसञ्च स्पर्श बद्धं स्पृष्टं विजानाति ॥” २ पूर्वम् ज० । ३ चक्षुरादिजन्ये । ४ गणधराः । ५ वीरांगजानवि-आ० ।
For Private And Personal Use Only