________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्ती
[ १६१८-१९ स्थिरः स्थूलरूपः चक्षुरादीन्द्रियाणां ग्राह्यो विषयो गोचरो गम्य इति यावत् वस्तुरूपोऽर्थ उच्यते । द्रव्यं वाऽर्थ उच्यते । तस्यार्थस्य बह्वादिविशेषणविशिष्टस्य अवहेहावायधारणा भवन्तीति सम्बन्धः । किमर्थमिदं सूत्रमुच्यते यतः बह्वादिरर्थ एवास्ति ? सत्यम् ; मिथ्यावादिकल्पनानिषेधार्थ सूत्रमिदमुच्यते। केचिन्मिथ्यावादिन एवं मन्यन्ते । एवं किम् ? यद् रूपरस५ गन्धवर्णशब्दाः पञ्च गुणाः इन्द्रियः किल रेसन्निकृष्यन्ते, तेषां गुणानामवग्रहणमिति । तन्न सङ्गच्छते ; रूपादयो गुणा अमूर्ताः, ते इन्द्रियसन्निकर्ष न प्राप्नुवन्ति । यदि न प्राप्नुवन्ति तर्हि 'मया रूपं दृष्टम् , गन्धो मया आघ्रातः' इति न घटते ; इयर्ति पर्यायान् अर्थः, अयंते वा पर्यायः यः सोऽर्थः द्रव्यम्, तस्मिन् द्रव्ये इन्द्रियः सनिकृष्यमाणे तस्मात्
द्रव्यात् रूपादीनामव्यतिरेके अपृथक्त्वे रूपादिष्वपि संव्यवहारो युज्यते । न च तथा १० सति सन्निकर्षः।
अथ "अव्यक्तस्य वस्तुनोऽवग्रह एव स्यान्न च ईहादय इत्यर्थप्रतिपादनार्थ सूत्रमिदमाहु:
व्यञ्जनस्यावग्रहः॥१८॥ व्यञ्जनस्य अव्यक्तस्य शब्दादिसमूहस्य अवग्रह एव भवति । स बहादिरूपो द्वादश१५ विधः । चक्षुर्मनोरहितान्यचतुर्भिरिन्द्रियः प्रादुर्भाविताऽष्टचत्वारिंशत्प्रकारो भवति ।
पूर्वोक्ताऽष्टाशीत्यधिकद्विशतमेलितः षट्त्रिंशदधिकत्रिंशत्प्रकारो मतिज्ञानभेदसमूहो भवति । किमर्थमिदं सूत्रम् ? नियमार्थमिदं सूत्रम्-व्यञ्जनस्य अवग्रह एव न ईहादयः । यथा नवशरावः द्वित्रिजलकणः सिक्तः सन् नार्दीभवति, स एव शराघः पुनः पुनः सिच्यमानः
शनैः शनैरार्दीभवति क्विधति, तथा श्रोत्रादिभिरिन्द्रियैः शब्दादिपरिणताः पुदलाः द्वित्रा२० दिषु क्षणेषु गृह्यमाणाः न व्यक्तीभवन्ति, पुनः पुनरवग्रहे सति तु व्यक्तीभवन्ति । अतः
कारणात् यावद् व्यक्तोऽवग्रहो न भवति तावद् व्यञ्जनावग्रह एव । उत्तरकाले तु व्यक्तस्य अवग्रहेहावायधारणा अपि भवन्ति । तर्हि १ सूत्रे एक्कारो गृहीतव्यः । कथम् ? 'व्यञ्जनस्य अवग्रह एव' इति सूत्रं विधीयताम् । सत्यम् ; १'सिद्धे विधिरारभ्यमाणो नियमार्थ एव ।
"सिद्धे सति आरम्भो नियमाय" [ ] इति वचनात् । २५ . अथ सर्वेन्द्रियेषु व्यञ्जनाऽवग्रहे प्रसक्ते इन्द्रियद्वयनिषेधार्थ सूत्रमिदमुच्यते
न चतुरनिन्द्रियाभ्याम् ॥ १९ ॥ चक्षुश्च अनिन्द्रियं च चक्षुरनिन्द्रिये, ताभ्यां चक्षुरनिन्द्रियाभ्याम् । चक्षुषा अनिन्द्रियेण च मनसा व्यञ्जनावग्रहो न भवति । यतः कारणादप्राप्तमथं अविदिक्कं युक्त सन्निकर्षविषयेऽवस्थितं बाह्यप्रकाशाभिव्यक्तं चक्षुरुपलभते । मनश्च अप्राप्तमुपलभते इति कारणात् चक्षु
१ वैशेषिकाः । २ संकृष्यन्ते आ०, ६०, व०. ज० । ३-वन्ति तर्हि वा०। ४ द्रव्यात् इन्द्रियाणाम-ता०, ३० । ५-क्तवस्तु-आ०, ब०, २०, ज० । ६ अव्यक्तशब्दसमूहस्य आ०, द०, १०, ज० । ७ द्विजल-आ०, २०, ५०, ज०। ८ सार्दीभवति ज.। सन्नाीभवति भा०, द०, ब० । -राभ-ता०। ९ दिव्यादि-ता० । १० सूत्रेण आ० । ११ विधेरा-आ०, ब०, ज० ।
For Private And Personal Use Only