________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[११७
प्रथमोऽध्यायः क्षिप्राऽनिःसृतानुक्तध्रु वाणि, तेषां बहुबहुविधक्षिप्राऽनिःसृतानुक्तध्रु वाणाम् । कथम्भूतानाम् ? सेतराणां प्रतिपक्षसहितानाम् । तेनायमर्थः-बहूनामवग्रहः तदितरस्याल्पस्यावग्रहः । बहुविधस्यावग्रहः तत्प्रतिपक्षभूतस्य एकविधस्यावग्रहः । क्षिप्रेणावग्रहः तदितरेण चिरेणावग्रहः । अनिःसृतस्यावग्रहः तदितरस्य निःसृतस्यावप्रहः । अनुक्तस्यावग्रहः तदितरस्योक्तस्यावग्रहः । ध्रुवस्यावग्रहः तदितरस्य अध्रुवस्यावग्रहः । एवमवग्रहो द्वादशप्रकारः। तथा ईहाऽपि द्वादशप्रकारा । ५ तथा अवायोऽपि द्वादशप्रकारः। तथा धारणाऽपि द्वादशप्रकारा। एवं द्वादशचतुष्के अष्टचत्वारिंशत् भेदा भवन्ति । साष्टचत्वारिंशत् षड्भिरीन्द्रियैर्गुणिता अष्टाशीत्यधिका द्विशती भवति । तत्र बह्ववग्रहादयः षट्प्रकाराः । षण्णां प्रभेदाश्च ज्ञानावरणक्षयोपशमप्रकर्षाद् भवन्ति । अल्पैकविधचिरनिःसृतोक्ताघ्र वाः पडितरे प्रकाराः ज्ञानावरणक्षयोपशमस्याप्रकर्षात् क्षयोपशममात्राद् भवन्ति । अत एव कारणात् बह्वादीनामञ्चितत्वादादौ ग्रहणम् । “यच्चार्चितं द्वयोः" १० [कात० २।५।१३ ] इति वचनात् ।
ननु बहुषु बहुत्वं वर्तते, बहुविधेष्वपि बहुत्वमस्ति कस्तयोर्विशेषः' ? सत्यम् ; एकप्रकारनानाप्रकारविहितोऽस्ति भेदः । ननु सकलपुद्गलनिःसरणानिःसृतम् , उक्तश्चाप्येवंविधमेव, अनयोरपि निःसृतोक्तयोः कः प्रतिविशेषो वर्तते ? सत्यम् ; अन्योपदेशपूर्वक यद् ग्रहणं तदुक्तमुच्यते । स्वयमेव परोपदेशमन्तरेणैव कश्चित् प्रतिपद्यते तद्ग्रहणं निःसृत- १५ मुच्यते। केचित् क्षिप्रनिःसृत इति पठन्ति । त एवं व्याख्यान्ति-श्रोत्रेन्द्रियेण शब्दमवगृह्यमाणं मयूरस्य कुररस्य वेति कश्चित् प्रतिपद्यते । अपरस्तु स्वरूपमेव प्रतिपद्यते । मयूरस्यैवायं "शब्दः अथवा कुररस्यैवायं शब्द इति निर्धारयति स निःसृत उच्यते।
ननु ध्रुवावग्रहस्य धारणायाश्च को विशेषः ? कर्मणः क्षयोपशमलब्धिकाले निर्मलपरिणामसन्तानेन यः क्षयोपशमः प्राप्तस्तेन प्रथमसमये यादृशोऽवग्रहः सञ्जातः तादृश एव द्विती- २० यतृतीयादिष्वपि समयेष्ववग्रहो भवति, तस्मादवग्रहान्न्यूनाधिको न भवति स ध्रु वाऽवग्रहः कथ्यते । यदा काले तु विशुद्धसंक्लिष्टपरिणामानां मिश्रणं भवति तस्मिन् काले यः कर्मणः क्षयोपशमो लब्धस्तस्मात् क्षयोपशमात् संजायमानोऽवग्रहः कदाचित् बहूनां भवति, कदाचिदल्पस्य भवति, कदाचिद् बहुविधस्यावग्रहो भवति कदाचिदेकविधस्यावग्रहो वा भवति, एवं न्यूनाधिकोऽवग्रहो अध्रुव उच्यते । धारणा तु अवगृहीतार्थानामविस्मरणकारणमिति ध्रुवाऽवग्रहधा- २५ रणयोर्महान् भेदो वर्तते ।
अथ यद्यवग्रहादयो बह्वादीनां विषयाणां स्वीकारो भवन्ति तर्हि बह्वादीनि विशेषणानि कस्य भवन्तीति प्रश्ने उत्तरमाह
अर्थस्य ॥ १७ ॥
१-शेषः एक-आ०, ज०। २-तुलना-स० सि० १६१६ । ३ व्याख्यास्यन्ति | आ० । ४ वेति प्रति-आ०। ५ शब्द इति द०, १०, २०, ज०, ता० । ६ निधारयति ता०। ७ प्रथमे सम-आ०, ज०, ६०,व० ।
For Private And Personal Use Only