________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्ती
[ ११५-१६ ननु "अनन्तरस्य विधिः प्रतिषेधो वा" [पा० महा० १।२।४७ ] इति परिभाषासूत्रबलादिन्द्रियानिन्द्रियनिमित्तमिति सूत्रेणेव मतिज्ञानं लभ्यते, किमर्थं 'तत्'शब्दप्रहणम् ? 'तच्छब्द इहार्थमुत्तरसूत्रार्थश्च गृह्यते । यन्मतिः (ति) स्मृतिः (ति) संज्ञाचिन्ताऽभिनिबोधबुद्धिप्रज्ञामेधादिपर्यायशब्दवाच्यं ज्ञानं तद् इन्द्रियानिन्द्रियनिमित्तम् । तदेव अवग्रहहा५ वायधारणा अपि मतिज्ञानं भवति । अन्यथा प्रथमं ज्ञानं मतिस्मृत्यादिशब्दवाच्यं इन्द्रियाऽनिन्द्रियनिमित्तं श्रुतम् , अवग्रहेहावायधारणा अपि श्रुतमित्यनिष्टोऽर्थ उत्पद्यते । ततः कारणात् अवग्रहादि इन्द्रियाऽनिन्द्रियनिमित्तं स्मृत्यादि अनिन्द्रियनिमित्तमिति वेदितव्यम् । ___ अथ मतिज्ञानस्योत्पत्तिनिमित्तं ज्ञातम् । मतिज्ञानस्य भेदपरिज्ञानार्थ सूत्रमिदमाहुः
अवग्रहहावायधारणाः ॥ १५ ॥ १० अवग्रहणमवग्रहः । ईहनमोहा अवायनमवायः । धारणं धारणा । अवग्रहश्च ईहा च
अवायश्च धारणा च अवग्रहेहावायधारणाः । एते चत्वारो भेदाः मतिज्ञानस्य भवन्ति । अवप्रहादीनां स्वरूपं निरूप्यते । अवग्रहस्य प्राक्सन्निपातमात्रदर्शनम् । अवग्रहस्तु मतिज्ञानस्य भेदः सन्निपातलक्षणदर्शनानन्तरमायग्रहणमवग्रह उच्यते । सन्निपातलक्षणं दर्शनं किम् ? विषयविषयिसन्निपाते सति दर्शनं भवति । तत्पश्चादर्थस्य ग्रहणमवग्रह उच्यते, यथा चक्षुषा शुक्ल १५ रूपमिति ग्रहणमवग्रहः । अवग्रहेण गृहीतो योऽर्थस्तस्य विशेषपरिज्ञानाकाक्षणमीहा कथ्यते,
यथा यच्छुळं रूपं मया दृष्टं तत्किं बलाका-बकभार्या आहोस्वित् पताका-ध्वजा वर्तते ? इति विशेषाकाङ्क्षणमीहा । तदनन्तरमेषा उत्पतति निपतति पक्षि (क्ष )विक्षेपादिकं करोति, तेन ज्ञायते-इयं बलाकैव भवति, पताका न भवति । एवं याथात्म्यावगमनं वस्तुस्वरूपनिर्धारण
मवाय उच्यते । अवेतस्य सम्यकपरिज्ञातस्य यत्कालान्तरेऽविस्मरणकारणं ज्ञानं सा धारणेत्यु२० च्यते । यथा या बलाका पूर्वाह्न मया दृष्टा सेवेयं बलाका वर्तते । एवंविधं धारणालक्षणम् । अवग्रहेहावायधारणानामुपन्यासक्रमो विहितः । कोऽर्थः ? उत्पत्ति क्रमः कृत इत्यर्थः ।
अथ अवग्रहादीनां चतुर्णा मतिज्ञानभेदानां प्रभेदपरिज्ञानार्थ सूत्रमिदमाहुः
बहुवहुविवक्षिप्रानिःमृतानुक्तध्रुवाणां सेतराणाम् ॥ १६॥
अवमहेहावायधारणाः क्रियाविशेषाः क्रियाभेदाः प्रकृताः प्रस्तुताः । तदपेक्षोऽयं कर्म२५ निर्देशो विषयनिर्देशः । अवग्रहादयः बलादीनां सेतराणां विषये भवन्तीत्यर्थः । बहुशब्दोऽत्र
संख्यावाची वपुल्यवाची च वेदितव्यः। संख्यावाची यथा एको द्वौ बहवः। वैपुल्यवाची यथा बहुः कूरः', बहुः सूपः । बहुश्च बहुविधश्च बहुप्रकारः, क्षिप्रं च अचिरम् , अनिःसृतश्च असकलपुद्गलः, अनुक्तञ्च अभिप्राये स्थितम् , ध्रुवञ्च निरन्तरं यथार्थग्रहणम् , बहुबहुविध
१ तच्छब्दग्रहणार्थम् आ०, ज० । तच्छब्दग्रह इहार्थमु-द०, य० । २ -त्तम् अवनआ०, २०, द०, ज० । ३-ज्ञापना-ज० । ४-दं प्राहुः आ०, ५०, द०, ज० | ५-माद्यं ग्रहणम् मा०, ५०, द० ज०, ३० । ६ बलाभार्या व०। ७-क्रम इत्यर्थ भा०, द०, ब०, ज०। ८ तदपेक्षया आ०, २०, २०, ज०। ९ ओदनः ।
For Private And Personal Use Only