SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १।१४ प्रथमोऽध्यायः शन इति प्रत्यभिज्ञानं संशा कथ्यते । यथा अग्नि विना धूमो न स्यातू तथा आत्मानं विना शरीरव्यापारवचनादिकं न स्यादिति वितर्कणमूहनं चिन्ता अभिधीयते। धूमादिदर्शनादग्न्यादिप्रतीतिरनुमानमभिनिबोध अभिधीयते । इतिशब्दात् प्रतिभावुद्धिमेधाप्रभृतयो मतिज्ञानप्रकारा वेदितव्याः । रात्रौ दिवा वाऽकस्माद्वाह्यकारणं विना 'व्युष्टे' ममेष्टः समेष्यति' इत्येवंरूपं यद्विज्ञानमुत्पद्यते सा प्रतिभा अभिधीयते । अर्थग्रहणशक्तिर्बुद्धिः कथ्यते । पाठग्रहण- ५ शक्तिर्मेधा अभिधीयते । उक्तञ्च "मतिरागमिका ज्ञेया बुद्धिस्तत्कालदर्शिनी। प्रज्ञा चातीतकालज्ञा मेधा कालत्रयात्मिका" ॥ [ ] अथ मतिज्ञानस्य आत्मलाभे किं निमित्तमिति प्रश्ने सूत्रं “सूचयन्ति तदिन्द्रियानिन्द्रियनिमित्तम् ॥ १४ ॥ तन्मतिज्ञानम् इन्द्रियानिन्द्रियनिमित्तम् । इन्दति परमैश्वयं प्राप्नोतीति इन्द्रः । आत्मतत्वस्यात्मनः ज्ञायकैकस्वभावस्य मतिज्ञानावरणक्षयोपशमे सति स्वयमर्थान् गृहीतुमसमर्थस्य यदर्थोपलब्धिलिङ्गं तदिन्द्रस्य लिङ्गम् इन्द्रियमुच्यते। अथवा, लीनमर्थं गमयति ज्ञापयतीति लिङ्गमिन्द्रियमुच्यते । आत्मनः सूक्ष्मस्य अस्तित्वाधिगमकारकं लिङ्गमिन्द्रियमित्यर्थः । अग्नेधूमवत् । इत्थमिदं स्पर्शनादिकरणम् आत्मनो लिङ्गं वेदितव्यम् । आत्मानं विना लिङ्गमिन्द्रियं १५ न भवतीति शातुः कर्तुरात्मनोऽस्तित्वमिन्द्रियर्गम्यते । अथवा नामकर्मण इन्द्र इति संज्ञा । इन्द्रेण नामकर्मणा "स्पृष्टं (सृष्ट) इन्द्रियमित्युच्यते । तदिन्द्रियं स्पर्शनादिकम् । तदिन्द्रियं पञ्चप्रकारम्- "स्पर्शनरसनघ्राणचक्षःश्रोत्राणि" [त० सू० २।१९] इति वक्ष्यमाणसूत्रेण वक्ष्यते । अनिन्द्रियं मनः अन्तःकरणमिति पर्याय शब्दाः । ननु न इन्द्रियमनिन्द्रियमिति इन्द्रियप्रतिषेधेन मनसि इन्द्रियलिङ्गे सत्यपि अनिन्द्रियशब्दस्य प्रवृत्तिः कथम् ? सत्यम् ; २० नशब्द ईषदर्थे वर्त्तते । न इति कोऽर्थः ? ईषत् । न इन्द्रियमनिन्द्रियम् , ईषदिन्द्रियमित्यर्थः, यथा अनुदरा कन्या । यदि कन्या सर्वथा उदररहिता भवति तथा सा कथं जीवति ? तेन ज्ञायते अनुदरा ईषदुदरा कन्येति । ननु मन ईषदिन्द्रियं कथम् ? सत्यम् ; यथा इन्द्रियाणि प्रतिनियतदेशविषयाणि कालान्तरस्थायीनि च वर्तन्ते मनस्तादृशं कथन ? अन्तःकरणश्च कथमुच्यते ? गुणदोषविचारस्मरणादिन्यापारेषु मन इन्द्रियाणि नापेक्ष्यते यतः, चक्षुरादिवत् बायः २५ पुरुषैः यतो नानु (नो) पलभ्यते तेनान्तर्गतं करणमन्तःकरणमित्युच्यते । इन्द्रियाणि चानिन्द्रियश्च इन्द्रियानिन्द्रियाणि । तानि निमित्तानि यस्य मतिज्ञानस्य तदिन्द्रियानिन्द्रियनिमित्तम्। १ प्रभाते । २-द्धिरुच्यते आ०, ब०, द०, ज०।३ तुलना-"स्मृतिर्व्यतीतविषया मतिरागामिगोचरा । बुद्धिस्तात्कालिकी प्रोक्ता प्रशा त्रैकालिकी मता ॥ प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा विदुः ।"-काव्यद० पृ० ७ । काव्यमी. १।४। ४ रचयति २०। ५ “इन्द्र इति नामकर्मोच्यते तेन सृष्टमिन्द्रियमिति ।" -स० सि० १।१४ । ६ तदिन्द्रियम् आ०, द०, २०, ज. । ७-शब्दः आ०, १०, द०, ज० । ८ ना इत्युपल--आ०, ५०, ६०, ज०। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy